This page has not been fully proofread.

२०४
 
दशकुमारचरितम् ।
 
[ पञ्चमः
 
स्थानीय प्रजानामापन्नशरणमागतोऽस्मि । यदि वृद्धं ब्राह्मणमधीति-
नमगतिमतिथिं च मामनुग्राह्यपक्षे गणयत्यादिराजचरितधुर्यो
देवः, सैषा भवद्भुजतरुच्छायामखण्डितचारित्रा तावद्ध्यास्तां
यावदस्याः पाणिग्राहकमानयेयम्' इति । स एवमुक्तो नियतम-
भिमनायमानः स्वदुहितृसंनिधौ मां वासयिष्यति । गतस्तु भवा-
नागामिनि मासि फाल्गुने फल्गुनीषूत्तरासु राजान्तः पुरजनस्य
तीर्थयात्रोत्सवो भविष्यति । तीर्थस्थानात्प्राच्यां दिशि गोरुता-
न्तरमतिक्रम्य, वानीरवलयमध्यवर्तिनि कार्तिकेयगृहे करतलगते-
न शुक्लाम्बरयुगलेन स्थास्यसि । स खल्वहमनभिशङ्क एवैतावन्तं
कालं सहाभिविहृत्य राजकन्यया भूयस्तस्मिन्नुत्सवे गङ्गाम्भसि
विहरन्विहारव्याकुले कन्यकासमाजे मनोपसृतस्त्वद्भ्याश एवो-
न्मयामि । पुनस्त्वदुपहृते वाससी परिधायापनीतदारिकावेषो
जामाता नाम भूत्वा त्वामेवानुगच्छेयम् । नृपात्मजा तु मामित-
स्ततोऽन्विष्यानासादयन्ती 'तया विना न भोक्ष्ये' इति रुदन्त्ये-
वावरोधने स्थास्यति । तन्मूले च महति कोलाहले, ऋन्दत्सु
परिजनेषु, रुदत्सु सखीजनेषु, शोचत्सु पौरजनेषु, किंकर्तव्यता-
मूढे सामाये पार्थिवे, त्वमास्थानीमेत्य मां स्थापयित्वा वक्ष्यसि
'देव स एष मे जामाता तवार्हति श्रीभुजाराधनम् । अधीति
 
पदचन्द्रिका ।
 
हीनानाम् । आपन्नशरणमापन्नानामापत्प्राप्तानां शरणं रक्षकम् । 'शरणं गृहरक्षित्रोः
इत्यमरः । अगति निराश्रयम् । अनुप्रास्यपक्षे कृपास्थानीये। राजचरितधुर्यः । 'धुरो
यडकौ (४१४१७७) इति यत् । अखण्डितचारित्राऽदूषितकन्यावस्था । पाणिग्राहकं
पाणिग्रहणकर्तारम् । फल्गुनीषूत्तरासु उत्तराफल्गुनीष्वित्यर्थः । अनभिशङ्को
निःशङ्कः । अभिविहृत्य क्रीडां कृत्वा । मनोपसृतो मग्नः सनुपसृतः । वदभ्याशे
त्वत्समीपे । उन्मङ्ख्यामि प्रादुर्भविष्ये । त्वदुपहृते त्वद्दत्ते । अवरोधनं राजान्तः-
पुरम् । आस्थानीमास्थानम् । अधीती । 'योऽधीतकृत्स्नवेदः स्यात्सोऽधीतीत्यु-
भूषणा ।
 
आपनानां प्राप्तापत्तीनां शरणं रक्षकम् । 'शरणं गृहरक्षित्रोः' इत्यमरः । प्रजानां
मातृपितृस्थानीयं । विग्रहे । अभीती 'इटादिभ्यश्च' (५१२१८८ ) इति कर्तरीनिः ।
लघुदीपिका ।
 
'करणं गृहरक्षित्रोः' । 'योऽधीतकृत्स्नवेदः स्यात्सोऽधीतीत्युलासे बुनेः' । 'कस्ये-
पाठा०-१ 'तीर्थयात्रोत्सवे तीर्थस्नाद. २ 'शुल्कामार'.