2023-09-02 16:14:25 by Lakshmainarayana achar

This page has been fully proofread twice.

नवमालिका, नवमालिका नाम कन्यका । सा मया समापत्ति-
दृष्टा कामनाराचपङ्क्तिमिव कटाक्षमालां मम मर्मणि व्यकिरत् ।
तच्छल्योद्धरणक्षमतश्च धन्वन्तरिसदृशस्त्वदृते नेतरोऽस्ति वैद्य
इति प्रत्यागतोऽस्मि । तत्प्रसीद कंचिदुपायमाचरितुम् ।
अयमहं परिवर्तितस्त्रीवेषस्ते कन्या नाम भवेयम् । अनुगतश्च मया
त्वमुपगम्य धर्मासनगतं धर्मवर्धनं वक्ष्यसि – 'ममेयमेकैव दुहिता ।
जातमात्रायां त्वस्यां जनन्यस्याः संस्थिता । माता च पिता
च भूत्वाहमेव व्यवर्धयम् । एतदर्थमेव विद्यामयं शुल्कमर्जितुं
गतोऽभूदवन्तिनगरीमुज्जयिनीमस्मद्वैवाह्यकुलजः कोऽपि विप्र-
दारकः । तस्मै चेयमनुमता दातुमितरस्मै न योग्या । तरुणीभूता
चेयम् । स च विलम्बितः । तेन तमानीय पाणिमस्या ग्राहयित्वा तस्मिन्न्यस्तभारः संन्यसिष्ये । दुरभिरक्षतया तु दुहितॄणां
मुक्तशैशवानाम्, विशेषतश्चामातृकाणाम् इह देवं मातृपितृ-
 
पदचन्द्रिका ।
 
म्बिता कदर्थिता नवमालिका ययेति तथा । समापत्तिर्यदृच्छासंगतिः । नाराचा बाणाः । 'प्रक्ष्वेडनास्तु नाराचाः' इत्यमरः । कटाक्षमालां कटाक्षश्रेणीम् । मर्मणि जीवस्थाने । 'जीवस्थानं भवेन्मर्म' इति हलायुधः । तच्छल्योद्धरणं तच्छल्यदूरीकरणं तत्राक्षमोऽसमर्थः । धन्वन्तरिर्दैववैद्यः । धर्मवर्धनं श्रावस्तीगगरीनायकं राजानम् । संस्थिता मरणं प्राप्ता । व्यवर्धयं वर्धितवान् । शुल्कं जामात्रा
देयं वस्तु । 'शुल्कमस्त्री जामात्रा यच्च दीयते' इति । विवाहाय योग्यं वैवाह्यं यत्कुलं वंशस्तत्र जातः । विप्रदारको ब्राह्मणपुत्रः । इतरस्मै ब्राह्मणपुत्रादन्यस्मै दातुं न योग्येति योजना । संन्यसिष्ये संन्यासमाश्रये । दुरभिरक्षतया दुःखेन रक्षणयोग्यतया । मुक्तशैशवानाम् । प्राप्ततारुण्यानामित्यर्थः । अमातृकाणां मातृ-
 
भूषणा ।
 
भूम्न्यसवः प्राणाः' इत्यमरः । समापत्तिर्दृष्टा । समापत्तिर्यदृच्छासंगतिः । मर्मणि ॥ 'जीवस्थानं भवेन्म' इति हलायुधः । धन्वन्तरिर्देववैद्यः । संस्थिता मृता । 'परेतप्रेतसंस्थिताः' इत्यमरः । विद्यामयं विद्यारूपम् । शुल्कं जामात्रा देयं वस्तु ।
 
लघुदीपिका ।
 
प्राणाः । नित्यबहुवचनान्तोऽयं शब्दः । 'पुंसि भूम्न्यसवः प्राणा: मर्मणि । 'जीवस्थानं भवेन्मर्म' इति हलायुधः । धन्वन्तरिर्देववैद्यः । शुल्कं जामात्रा देयं वस्तु । 'शुल्कमस्त्री जामात्रा यच्च दीयते । आपत्नशरणमापन्नानां रक्षकम् ।