2023-08-07 16:19:57 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
जातनिश्चयोऽब्रवम् – 'भद्रे, देहि चित्रपटम्' इति । सा त्वर्पित-
वती मद्धस्ते । पुनस्तमादाय तामपि व्याजसुप्तामुल्लसन्मदनराग-
विह्वलां वल्लभा [^१]मेकत्रैवाभिलिख्य 'काचिदेवंभूता युवतिरीदृ- शस्य पुंसः पार्श्वशायिन्यरण्यानीप्रसुप्तेन मयोपलब्धा । किलैष स्वप्नः' इत्यालपं च । हृष्टया तु तया विस्तरतः पृष्टः सर्वमेव वृत्तान्तमकथयम् । असौ च सख्या मन्निमित्तान्य- वस्थान्तराण्यवर्णयत् । तदाकर्ण्य च यदि तव सख्या मदनुग्रहोन्मुखं मानसम् गमय कानिचिदहानि । कमपि कन्यापुरे निराशङ्कनिवासकरणमुपायमारचय्यागमिष्यामि' इति कथंचिदेनामभ्युपगमय्य गत्वा तदेव खर्वटं वृद्धविटेन समगंसि । सोऽपि ससंभ्रमं विश्रमय्य तथैव स्नानभोजनादि कारयित्वा रहस्यपृच्छत् – 'आर्य, कस्य हेतोरचिरेणैव प्रत्यागतोऽसि । प्रत्यवादिषमेनम् – 'स्थान एवाहमार्येणास्मि पृष्टः । श्रूयताम् । अस्ति हि श्रावस्ती नाम नगरी । तस्याः पतिरपर इव धर्मपुत्रो धर्मवर्धनो नाम राजा । तस्य दुहिता प्रत्यादेश इव श्रियः, प्राणा इव कुसुमधन्वनः, सौकुमार्यविडम्बित-
पदचन्द्रिका ।
कारणरहितं यच्चातुर्यं तस्मात् । तं चित्रपटम् । व्याजेन मिषेण । एकत्रैकस्मिन्प्रदेशे युवतिः स्त्री । 'यूनस्तिः' (४।१।७७) इति साधुः । अरण्यानी' 'महारण्यमरण्यानी' इत्यमरः । उपलब्धा प्राप्ता । मन्निमित्तानि मदर्थानि । मदनुग्रहोन्मुखं मयि योऽनुग्रहस्तनोन्मुखमुत्कण्ठितम् । खर्वटो ग्रामः । रहस्येकान्ते । आर्येति । अचिरेणैव तत्कालमेव । एवं वृद्धविटम् । स्थाने युक्तमित्यर्थः । अस्तीति । प्रत्यादेशो निरसनम् । 'प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः' इत्यमरः । प्राणा
असवः । नित्यं बहुवचनान्तोऽयं शब्दः । सुकुमारस्य भावः सौकुमार्यम् । विड-
भूषणा ।
कण्ठीरवरवः सिंहनादः । जितश्चासौ । जित इति कर्मणि प्रत्ययः । अरण्यानी । 'महारण्यमरण्यानी' इत्यमरः । संकथा मिथोभाषणम् । अस्ति तदिति । तत्पूर्वदृष्टम् । रूपसंवादाद्रूपदर्शनात् । खर्वटो ग्रामः स्थाने युक्तम् । प्रत्यादेशो निरसनम् । 'प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः' इत्यमरः । प्राणाः । 'पुंसि
लघुदीपिका ।
वैजयन्ती । कण्ठीरवरवः सिंहनादः । अरण्यानी । 'महारण्यमरण्यानी' । खर्वटो ग्रामः । प्रत्यादेशो निरसनम् । 'प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः' ।
[^१]G. ' तत्रैव'.