2023-08-07 16:17:26 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

दशकुमारचरितम् ।
 
[ पञ्चमः
 
जातनिश्चयोऽब्रवम् – 'भद्रे, देहि चित्रपटम्' इति । सा त्वर्पित-

वती मद्धस्ते । पुनस्तमादाय तामपि व्याजसुप्तामुल्लसन्मदनराग-

विह्वलां वल्लभा [^१]मेकत्रैवाभिलिख्य 'काचिदेवंभूता युवतिरीदृ- शस्य
पुंसः पार्श्वशायिन्यरण्यानीप्रसुप्तेन मयोपलब्धा । किलैष स्वप्नः'
इत्यालपं च । हृष्टया तु तया विस्तरतः पृष्टः सर्वमेव वृत्तान्तम-
कथयम् । असौ च सख्या मन्निमित्तान्य- वस्थान्तराण्यवर्णयत् ।
तदाकर्ण्य च यदि तव सख्या मदनुग्रहोन्मुखं मानसम् गमय
कानिचिदहानि । कमपि कन्यापुरे निराशङ्कनिवासकरणमुपाय-
मारचय्यागमिष्यामि' इति कथंचिदेनामभ्युपगमय्य गत्वा तदेव
खर्वटं वृद्धविटेन समगंसि । सोऽपि ससंभ्रमं विश्रमय्य तथैव
स्नानभोजनादि कारयित्वा रहस्यपृच्छत् – 'आर्य, कस्य हेतोरचि-
रेणैव प्रत्यागतोऽसि । प्रत्यवादिषमेनम् – 'स्थान एवाहमार्येणास्मि
पृष्टः । श्रूयताम् । अस्ति हि श्रावस्ती नाम नगरी । तस्याः
पतिरपर इव धर्मपुत्रो धर्मवर्धनो नाम राजा । तस्य दुहिता
प्रत्यादेश इव श्रियः, प्राणा इव कुसुमधन्वनः, सौकुमार्यविडम्बित-

 
पदचन्द्रिका ।
 

 
कारणरहितं यच्चातुर्यं तस्मात् । तं चित्रपटम् । व्याजेन मिषेण । एकन्नैत्रैकस्मिन्प्रदेशे
युवतिः स्त्री । 'यूनस्तिः' (४।१।७७) इति साधुः । अरण्यानी' 'महारण्यमरण्यानी'
इत्यमरः । उपलब्धा प्राप्ता । मन्निमित्तानि मदर्थानि । मदनुग्रहोन्मुखं मयि योऽनु-
ग्रहस्तनोन्मुखमुत्कण्ठितम् । खर्वटो ग्रामः । रहस्येकान्ते । आर्येति । अचिरे-
णैव तत्कालमेव । एवं वृद्धविटम् । स्थाने युक्तमित्यर्थः । अस्तीति । प्रत्या-
देशो निरसनम् । 'प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः' इत्यमरः । प्राणा

असवः । नित्यं बहुवचनान्तोऽयं शब्दः । सुकुमारस्य भावः सौकुमार्यम् । विड-

 

 
२०२
 
-
 

 
भूषणा ।
 

 
कण्ठीरवरवः सिंहनादः । जितश्चासौ । जित इति कर्मणि प्रत्ययः । अरण्यानी ।
'महारण्यमरण्यानी' इत्यमरः । संकथा मिथोभाषणम् । अस्ति तदिति ।
तत्पूर्वदृष्टम् । रूपसंवादाद्रूपदर्शनात् । खर्वटो ग्रामः स्थाने युक्तम् । प्रत्यादेशो
निरसनम् । 'प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः' इत्यमरः । प्राणाः । 'पुंसि

 
लघुदीपिका ।
 

 
वैजयन्ती । कण्ठीरवरवः सिंहनादः । अरण्यानी । 'महारण्यमरण्यानी' । खर्वटो
ग्रामः । प्रत्यादेशो निरसनम् । 'प्रत्याख्यानं निरसनं प्रत्यादेशो निराकृतिः' ।
पाठा०-

 
[^
'व]G. ' तत्रैव'.