2023-09-02 16:14:41 by Lakshmainarayana achar

This page has been fully proofread twice.

निर्वर्णयन्ती सविस्मयं सवितर्कं सहर्षं च क्षणमवातिष्ठत् ।
मयापि तत्र चित्रपटे मत्सादृश्यं पश्यता तद्दृष्टिचेष्टितमनाकस्मिकं
मन्यमानेन 'ननु सर्वसाधारणोऽयं रमणीयः पुण्यारामभूमिभागः ।
किमिति चिरस्थितिक्लेशोऽनुभूयते । ननूपवेष्टव्यम्' इत्यभिहिता
सा सस्मितम् 'अनुगृहीतास्मि' इति न्यषीदत् । संकथा च देश-
वार्तानुविद्धा काचनावयोरभूत् । कथासंश्रिता च सा 'देशातिथि -
रसि । दृश्यन्ते च तेऽध्वश्रान्तानीव गात्राणि । यदि न दोषो
मद्गृहेऽद्य विश्रमितुमनुग्रहः क्रियताम्' इत्यशंसत् । अहं च
'अयि मुग्धे, नैष दोषः, गुण एव' इति तदनुमार्गगामी तद्गृहगतो
राजार्हेण स्नानभोजनादिनोपचरितः, सुखं निषण्णो रहसि
पर्यपृच्छेय – 'महाभाग, दिगन्तराणि भ्रमता कच्चिदस्ति किंचि-
दद्भुतं भवतोपलब्धम्' इति । ममाभवन्मनसि 'महदिदमाशास्प-
दम् । एषा खलु निखिलपरिजनसंबाधसंलक्षितायाः सखी राज-
दारिकायाः । चित्रपटे चास्मिन्नपि तदुपरि विरचितसितवितानं
हर्म्यतलम्, तद्गतं च प्रकामविस्तीर्णं शरदभ्रपटलपाण्डुरं शयनम्,
तदधिशायिनी च निद्रालीढलोचना ममैवेयं प्रतिकृतिः । अतो
नूनमनङ्गेन सापि राजकन्या तावतीं भूमिमारोपिता । यस्यामसह्य-
मदनज्वरव्यथितोन्मादिता सती सखीनिर्बन्धपृष्टविक्रियानिमित्त-
चातुर्येणैतद्रूपनिर्माणेनैव समर्थमुत्तरं दत्तवती । रूपसंवादाच्च
संशयादनया पृष्टो भिन्द्यामस्याः संशयं यथानुभवकथनेन' इति
 
पदचन्द्रिका ।
 
यान्तीम् । पुंरूपं पुरुषरूपम् । सविस्मयं साश्चर्यम् । सवितर्कं तर्कसहितम् । तदृष्टिचेष्टितं तस्याः पूर्वदृष्टाया दृष्टिचेष्टितम् । स्थितिक्लेशः स्थैर्यकष्टम् । उपवेष्टव्यं स्थातव्यम् । अभिहितोक्ता । न्यषीदत् । संकथा दैवतगोष्ठी । देशवार्ता लौकिकगोष्ठी । काचन वचनातीता । सा चाहं चावां तयोः । अध्वश्रान्तानीव मार्गश्रान्तानीव । मद्गृहे मम सदने । विश्रमितुं विश्रान्तिं प्राप्तुम् । अनुग्रहः कृपा । राजार्हेण राजयोग्येन । उपचरित उपचारं प्रापितः ।
रहस्येकान्ते । कच्चिदिति प्रश्ने । उपलब्धं प्राप्तम् । आशास्पदमाशास्थानम् । संबाधः संघ: । राजदारिकाया राजकन्यकायाः । सितवितानं सितोल्लोचः । शरदभ्रं शरत्कालमेघस्तस्य पटलं तद्वत्पाण्डुरम् । निद्रालीढलोचना निद्राधिष्ठितनयना । आलीढे व्याप्ते । प्रतिकृतिः प्रतिस्वरूपम् । तावतीं भूमिं मदनपरवशतारूपां मर्यादाम् । निर्बन्धपृष्टविक्रिया बलात्कारेण पृष्टविकारा । अनिमित्तं