2023-08-07 15:57:08 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
मयापि तत्र चित्रप
मन्यमानेन 'ननु सर्वसाधारणोऽयं रमणीयः पुण्यारामभूमिभागः ।
किमिति चिरस्थितिक्लेशोऽनुभूयते । ननूपवेष्टव्यम्' इत्यभिहिता
सा सस्मितम् 'अनुगृहीतास्मि' इति न्यषीदत् । संकथा च देश-
वार्तानुविद्धा काचनावयोरभूत् । कथासंश्रिता च सा 'देशातिथि -
रसि । दृश्यन्ते च तेऽध्वश्रान्तानीव गात्राणि । यदि न दोषो
मद्गृहेऽद्य विश्रमितुमनुग्रहः क्रियताम्' इत्यशंसत् । अहं च
'अयि मुग्धे, नैष दोषः, गुण एव' इति तदनुमार्गगामी तद्गृहगतो
राजार्हेण स्नानभोजनादिनोपचरितः, सुखं निषण्णो रहसि
पर्यपृच्छेय – 'महाभाग, दिगन्तराणि भ्रमता क
दद्भुतं भवतोपलब्धम्' इति । ममाभवन्मनसि 'महदिदमाशास्प-
दम् । एषा खलु निखिलपरिजनसंबाधसंलक्षितायाः सखी राज-
दारिकायाः । चित्रपटे चास्मिन्नपि तदुपरि विरचितसितवितानं
हर्म्यतलम्, तद्गतं च प्रकामविस्तीर्
तद्
तदधिशायिनी च निद्रालीढलोचना ममैवेयं प्रतिकृतिः । अतो
नूनमनङ्गेन सापि राजकन्या तावतीं भूमिमारोपिता । यस्यामसह्य-
मदनज्वरव्यथितोन्मादिता सती सखीनिर्बन्ध
चातुर्येणैतद्रूपनिर्माणेनैव समर्थमुत्तरं दत्तवती । रूपसंवादा
संशयादनया पृष्टो भिन्द्यामस्याः संशयं यथानुभवकथनेन' इति
$1
पदचन्द्रिका ।
यान्तीम् । पुंरूपं पुरुषरूपम् । सविस्मयं साश्चर्यम् । सवितर्कं तर्क
रहस्येकान्ते । कचिदिति प्रश्ने । उपलब्धं प्राप्तम् । आशास्पदमाशास्थानम् ।