2023-09-02 16:14:48 by Lakshmainarayana achar

This page has been fully proofread twice.

वाट: पुरुषैरसमीक्ष्य बलाकाजातिस्ताम्रचूडो बलप्रमाणाधिक-
स्यैवं प्रतिविसृष्टः' इति । सोऽपि तज्ज्ञः 'किमज्ञैरेभिर्व्युत्पादितैः ।
तूष्णीमास्स्व' इत्युपहस्तिकायास्ताम्बूलं कर्पूरसहितमुद्धृत्य मह्यं
दत्त्वा चित्राः कथाः कथयन्क्षणमतिष्ठत् । प्रायुध्यत चातिसंरब्ध-
मनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठीरवरवं विहङ्गमद्वयम् । जित-
श्चासौ प्रतीच्यवाटकुक्कुटः । सोऽपि [^१]विट: स्ववाटकुक्कुटविजयहृष्टो मयि वयोविरुद्धं सख्यमुपेत्य तदहरेव स्वगृहे स्नानभोजनादिकारयित्वोत्तरेद्यु: श्रावस्तीं प्रति यान्तं मामनुगम्य 'स्मर्तव्योऽस्मि सत्यर्थे' इति मित्रवद्विसृज्य प्रत्ययासीत् ।
अहं च गत्वा श्रावस्तीमध्वश्रान्तो बाह्योद्याने लता [^२]मण्डले शयितोऽस्मि । हंस रवप्रबोधितश्चोत्थाय कामपि क्वणितनूपुरमुखराभ्यां चरणाभ्यां मदन्तिकमुपसरन्तीं युवतीमद्राक्षम् । सा त्वागत्य स्वहस्तवर्तिनि चित्रपटे लिखितं मत्सदृशं कमपि [^३]पुंरूपं मां च पर्यायेण
 
पदचन्द्रिका ।
 
इत्यमरः । अस्मेषि हास्यमकरवम् । संनिधिनिषण्णः समीपस्थितः । नारिकेलजातिरेकः कुक्कुटः । द्वितीयः कुक्कुटो बलाकाजातीयः । 'दीर्घग्रीवः सितवपुर्महाप्राणः स्रवन्मदः ।बलाकाजातिरित्युक्तस्तदन्यो नालिकेरजः ॥' इति वैजयन्ती । उपहस्तिका ताम्बूलस्थापनाय चर्मपेशी । 'पूगाद्यावपनी चर्म ( वस्त्र ) भस्त्रिका चोपहस्तिका' इति वैजयन्ती । 'उपदस्तिका' इति वा पाठः । स एवार्थः । भाषायां 'चंची' इति प्रसिद्धा । कण्ठीरवरवः सिंहनादः । वाटः श्रेणि: । 'वाट: पुमान्पथि श्रेणी' इति वररुचिः । [स्ववाटकुक्कुटविजयेन स्व- मार्गकुक्कुटविजयेन] । हृष्टो हर्ष: प्राप्तः । वयोविरुद्धं 'समवयसोर्मैत्री' इति वचनात्तद्विरुद्धम् । तदहस्तद्दिवसे ॥
अध्वश्रान्तो मार्गश्रान्तः । बाह्योद्याने बाह्योपवने । लतामण्डले वल्लीमण्डले । नूपुरं पादभूषणम् । मुखरं वाचालम् । मदन्तिकं मत्समीपम् । उपसरन्तीं
 
भूषणा ।
 
प्राणः स्रवन्मदः । बलाकाजातिरित्युक्तस्तदन्यो नालिकेरजः ॥' इति वैजयन्ती । वाटः श्रेणी 'वाटः पुमान्पथि श्रेणौ' । उपहस्तिका । 'पूगाद्यावपनी वस्त्रभस्त्रिका चोपहस्तिका' इति वैजयन्ती । भाषायां 'चंची' इति प्रसिद्धा ।
 
लघुदीपिका ।
 
जातिश्चेति द्वौ कुक्कुटविशेषौ । दीर्घग्रीवः सितवपुर्महाप्राणः स्र- वन्मदः । बलाकाजातिरित्युक्तस्तदन्यो नालिकेरजः ॥' इति वैजयन्ती । कटः श्रेणी । 'वाटः पुमान्पथि श्रेणी । उपहस्तिका । पूगाद्यावपनी वस्त्रभस्त्रिका चोपहस्तिका' इति
 
[^१]G. 'विटब्राह्मणः स्वकुक्कुट'.
[^२]G. 'मण्डपे',
[^३]G. 'पुरुषम्'.