2023-08-07 15:41:13 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

२००
 
दशकुमारचरितम् ।
 
[ पञ्चमः
 
वाट: पुरुषैरसमीक्ष्य बलाकाजातिस्ताम्रचूडो बलप्रमाणाधिक-

स्यैवं प्रतिविसृष्टः' इति । सोऽपि तज्ज्ञः 'किमज्ञैरेभिर्व्युत्पादितैः ।

तूष्णीमास्स्व' इत्युपहस्तिकायास्ताम्बूलं कर्पूरसहितमुद्धृत्य मह्यं

दत्त्वा चित्राः कथाः कथयन्क्षणमतिष्ठत् । प्रायुध्यत चातिसंरब्ध-

मनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठीरवरवं विहङ्गमद्वयम् । जित-

श्चा
सौ प्रतीच्यवाटकुक्कुटः । सोऽपि [^१]विटेःट: स्ववाटकुक्कुटविजयहृष्टो
मयि वयोविरुद्धं सख्यमुपेत्य तदहरेव स्वगृहे स्नानभोजनादि
कारयित्वोत्तरेयुःद्यु: श्रावस्तीं प्रति यान्तं मामनुगम्य 'स्मर्तव्यो-
ऽस्मि सत्यर्थे' इति मित्रवद्विसृज्य प्रत्ययासीत् ।
 

अहं च गत्वा श्रावस्तीमध्वश्रान्तो बाह्योद्याने लतामे [^२]मण्डले शयि-
तोऽस्मि । हंस रवप्रबोधितश्चोत्थाय कामपि क्वणितनूपुरमुखराभ्यां
चरणाभ्यां मदन्तिकमुपसरन्तीं युवतीमद्राक्षम् । सा त्वागत्य
स्वहस्तवर्तिनि चित्रपटे लिखितं मत्सदृशं कमपि पु[^३]पुंरूपं मां च पर्यायेण

 
पदचन्द्रिका ।
 

 
इत्यमरः । अस्मेषि हास्यमकरवम् । संनिधिनिषण्णः समीपस्थितः । नारिकेल-
जातिरेकः कुक्कुटः । द्वितीयः कुक्कुटो बलाकाजातीयः । 'दीर्घग्रीवः सितवपु-
र्महाप्राणः स्रवन्मदः । बलाकाजातिरित्युक्तस्तदन्यो नालिकेरजः ॥' इति

वैजयन्ती । उपहस्तिका ताम्बूलस्थापनाय चर्मपेशी । 'पूगाद्यावपनी चर्म ( वस्त्र )
भस्त्रिका चोपहस्तिका' इति वैजयन्ती । 'उपदस्तिका' इति वा पाठः । स एवार्थः ।
भाषायां 'चंची' इति प्रसिद्धा । कण्ठीरवरवः सिंहनादः । वाटः श्रेणि: । 'वाट:

पुमान्पथि श्रेणी' इति वररुचिः । [स्ववाटकुक्कुटविजयेन स्व- मार्गकुक्कुटविजयेन] । हृष्टो
हर्ष प्राप्तः । वयोविरुद्धं 'समवयसोर्मैत्री' इति वचनात्तद्विरुद्धम् । तदहस्तद्दिवसे ॥
 

अध्वश्रान्तो मार्गश्रान्तः । बाह्योद्याने बाह्योपवने । लतामण्डले वल्लीमण्डले ।
नूपुरं पादभूषणम् । मुखरं वाचालम् । मदन्तिकं मत्समीपम् । उपसरन्तीं

 
भूषणा ।
 

 
प्राणः स्रवन्मदः । बलाकाजातिरित्युक्तस्तदन्यो नालिकेरजः ॥' इति वैज-
यन्ती । वाटः श्रेणी 'वाटः पुमान्पथि श्रेणौ' । उपहस्तिका । 'पूगाद्यावपनी
चन
वस्त्रस्त्रिका चोप्रहस्तिका' इति वैजयन्ती । भाषायां 'चंची' इति प्रसिद्धा ।

 
लघुदीपिका ।
 

 
जातिश्चेति द्वौ कुक्कुटविशेषौ । दीर्घग्रीवः सितवपुर्महाप्राणः श्रस्र- वन्मदः । बला-
काजातिरित्युक्तस्तदन्यो नालिकेरजः ॥' इति वैजयन्ती । कटः श्रेणी । 'वाटः
पुमान्पथि श्रेणी । उपहस्तिका । पूगाधाद्यावपनी वस्त्रभस्त्रिका चोपहस्तिका' इति
पाठा०-

 
[^
]G. 'विटब्राह्मणः स्वकुक्कुट'.
[^
]G. 'मण्डपे',
[^
]G. 'पुरुषम्'.