This page has not been fully proofread.

२००
 
दशकुमारचरितम् ।
 
[ पञ्चमः
 
वाट: पुरुषैरसमीक्ष्य बलाकाजातिस्ताम्रचूडो बलप्रमाणाधिक-
स्यैवं प्रतिविसृष्टः' इति । सोऽपि तज्ज्ञः 'किमज्ञैरेभिर्व्युत्पादितैः ।
तूष्णीमास्स्व' इत्युपहस्तिकायास्ताम्बूलं कर्पूरसहितमुद्धृत्य मह्यं
दत्त्वा चित्राः कथाः कथयन्क्षणमतिष्ठत् । प्रायुध्यत चातिसंरब्ध-
मनुप्रहारप्रवृत्तस्वपक्षमुक्तकण्ठीरवरवं विहङ्गमद्वयम् । जित-
सौ प्रतीच्यवाटकुक्कुटः । सोऽपि विटेः स्ववाटकुक्कुटविजयहृष्टो
मयि वयोविरुद्धं सख्यमुपेत्य तदहरेव स्वगृहे स्नानभोजनादि
कारयित्वोत्तरेयुः श्रावस्तीं प्रति यान्तं मामनुगम्य 'सर्तव्यो-
ऽस्मि सत्यर्थे इति मित्रवद्विसृज्य प्रत्ययासीत् ।
 
अहं च गत्वा श्रावस्तीमध्वश्रान्तो बाह्योद्याने लतामेण्डले शयि-
तोऽस्मि । हंस रवप्रबोधितश्चोत्थाय कामपि क्वणितनूपुरमुखराभ्यां
चरणाभ्यां मदन्तिकमुपसरन्तीं युवतीमद्राक्षम् । सा त्वागत्य
स्वहस्तवर्तिनि चित्रपटे लिखितं मत्सदृशं कमपि पुरूपं मां च पर्यायेण
पदचन्द्रिका ।
 
इत्यमरः । अस्मेषि हास्यमकरवम् । संनिधिनिषण्णः समीपस्थितः । नारिकेल-
जातिरेकः कुक्कुटः । द्वितीयः कुक्कुटो बलाकाजातीयः । 'दीर्घग्रीवः सितवपु-
महाप्राणः सवन्मदः । बलाकाजातिरित्युतस्तदन्यो नालिकेरजः ॥ इति
वैजयन्ती । उपहस्तिका ताम्बूलस्थापनाय चर्मपेशी । 'पूगाद्यावपनी चर्म ( वस्त्र )
भस्त्रिका चोपहस्तिका' इति वैजयन्ती । 'उपदस्तिका' इति वा पाठः । स एवार्थः ।
भाषायां 'चंची' इति प्रसिद्धा । कण्ठीरवरवः सिंहनादः । वाटः श्रेणि: । 'वाट:
पुमान्पथि श्रेणी इति वररुचिः । [स्ववाटकुक्कुटविजयेन खमार्गकुक्कुटविजयेन] । हृष्टो
हर्ष प्राप्तः । वयोविरुद्धं 'समवयसोमैत्री' इति वचनात्तद्विरुद्धम् । तदहस्तद्दिवसे ॥
 
अध्वश्रान्तो मार्गश्रान्तः । बाह्योद्याने बायोपवने । लतामण्डले वल्लीमण्डले ।
नूपुरं पादभूषणम् । मुखरं वाचालम् । मदन्तिकं मत्समीपम् । उपसरन्तीं
भूषणा ।
 
प्राणः सवन्मदः । बलाकाजातिरित्युक्तस्तदन्यो नालिकेरजः ॥ इति वैज-
यन्ती । वाटः श्रेणी 'वाटः पुमान्पथि श्रेणौ' । उपहस्तिका । 'पूगाद्यावपनी
चनभत्रिका चोप्रहस्तिका' इति वैजयन्ती । भाषायां 'चंची' इति प्रसिद्धा ।
लघुदीपिका ।
 
जातिश्चेति द्वौ कुकुटविशेषौ । दीर्घग्रीवः सितवपुर्महाप्राणः श्रवन्मदः । बला-
काजातिरित्युक्तस्तदन्यो नालिकेरजः ॥ इति वैजयन्ती । कटः श्रेणी । 'वाटः
पुमान्य श्रेणी । उपहस्तिका । पूगाधावपनी वस्त्रभस्त्रिका चोपहस्तिका' इति
पाठा०-१ 'विटब्राह्मणः स्वकुकुट'. २ 'मण्डपे, ३ 'पुरुषम्'.