2023-09-02 16:14:56 by Lakshmainarayana achar

This page has been fully proofread twice.

प्रतिनिवृत्य दृष्ट्वैव त्वां यथावदभ्यजानाम् – 'कथं मत्सुत एवायं
वत्सस्यार्थपालस्य प्राणभूतः सखा प्रमतिरिति पापया मयास्मिन्न-
ज्ञानादौदासीन्यमाचरितम् । अपि चायमस्यामासक्तभावः । कन्या
चैनं कामयते युवानम् । उभौ चेमौ लक्षसुप्तौ त्रपया साध्वसेन
वान्योन्यमात्मानं न विवृण्वाते । गन्तव्यं च मया । कामाघ्रात-
याप्यनया कन्यया रहस्यरक्षणाय न समाभाषितः सखीजनः परि-
जनो वा । नयामि तावत्कुमारम् । पुनरपीममर्थं [^१]लब्धलक्षो
यथोपपन्नैरुपायैः साधयिष्यति' इति मत्प्रभावप्रस्वापितं भवन्तमे-
तदेव पत्रशयनं प्रत्यनैषम् । एवमिदं वृत्तम् । 'एषा चाहं पितुस्ते
पादमूलं प्रत्युपसर्पेयम्' इति प्राञ्जलिं मां भूयोभूयः परिष्वज्य
शिरस्युपाघ्राय कपोलयोश्चुम्बित्वा स्नेहविह्वला गतासीत् । अहं च
पञ्चबाणवश्यः श्रावस्तीमभ्यवर्तिषि ।
मार्गे च महति निगमे नैगमानां ताम्रचूडयुद्धकोलाहलो
महानासीत् । अहं च तत्र संनिहितः किंचिदस्मेषि । संनिधिनि-
षण्णस्तु मे वृद्धविटः कोऽपि ब्राह्मणः शनकैः स्मितहेतुमपृच्छत् ।
अब्रवं च - 'कथमिव नारिकेलजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्य-
 
पदचन्द्रिका ।
 
न्नमहिमा प्राप्तमहिमा । प्राणभूतः प्राणतुल्यः । उदासीनस्य भाव औदासीन्यम् । अपि चायमिति । त्रपया लज्जया । साध्वसेन भयेन । विवृण्वाते । कामाघ्रातया। मदनस्पृष्टयेत्यर्थः । रहस्यरक्षणाय गुह्यरक्षणाय । लब्धलक्षो लब्धावसरः । एवमिति । भूयोभूयो वारंवारम् । पञ्चबाणो मदनः ॥
निगमो वणिग्ग्रामः । 'निगमः सुरे । वेदे वणिक्पथे मार्गे इति महीपः । नैगमानां वणिजाम् । ताम्रचूडः कुक्कुटः । 'कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः
 
भूषणा ।
 
'निगमो विषये वेदे पुरे पथि वणिक्पथे' । नैगमानां वणिजाम् । 'नैगमो वाणिजो वणिक्' इत्यमरः । ताम्रचूडः कुक्कुटः । 'कृकवाकुस्ताम्रचूडः कुक्कुटः' इत्यमरः ।
नारिकेलजातिर्बलाकाजातिश्चेति द्वौ कुक्कुटविशेषौ । 'दीर्घग्रीवः सितवपुर्महा-
 
लघुदीपिका ।
 
स्यादसत्याप्रिययोरपि' इति सज्जनः । लब्धलक्षो लब्धावसरः । निगमो वणिग्ग्रामः । 'निगमो विषये वेदे पुरे पथि वणिक्पथे' । नैगमानां वणिजाम् । ताम्रचूडः कुक्कुटः । 'कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः' । नारिकेलजातिर्बलाका-
 
[^१]G. 'लब्धक्षणो', 'लब्धलक्षणो'.