2023-07-19 16:33:01 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् । १९९
 
प्रतिनिवृत्य दृष्ट्टैवैव त्वां यथावदभ्यजानाम् – 'कथं मत्सुत एवायं

वत्स स्यार्थपालस्य प्राणभूतः सखा प्रमतिरिति पापया मयास्मिन्न-

ज्ञानादौदासीन्यमाचरितम् । अपि चायमस्यामासक्तभावः । कन्या

चैनं कामयते युवानम् । उभौ चेमौ लक्षसुप्तौ त्रपया साध्वसेन

वान्योन्यमात्मानं न विवृण्वाते । गन्तव्यं च मया । कामाघ्रात-

याप्यनया कन्यया रहस्यरक्षणाय न समाभाषितः सखीजनः परि-

जनो वा । नयामि तावत्कुमारम् । पुनरपीममर्थ लेथं [^१]लब्धलक्षो

यथोपपन्नैरुपायैः साधयिष्यति' इति मत्प्रभावप्रस्थावापितं भवन्तमे-

तदेव पत्रशयनं प्रत्यनैषम् । एवमिदं वृत्तम् । 'एषा चाहं पितुस्ते

पादमूलं प्रत्युपसर्पेयम्' इति प्राञ्जलिं मां भूयोभूयः परिष्वज्य

शिरस्युपाघ्राय कपोलयोश्चुम्बित्वा स्नेहविह्वला गतासीत् । अहं च

पञ्चबाणवश्यः श्रावस्तीमभ्यवर्तिषि ।
 

मार्गे च महति निगमे नैगमानां ताम्रचूडयुद्धकोलाहलो

महानासीत् । अहं च तत्र संनिहितः किंचिदस्मेषि । संनिधिनि-

ण्णस्तु मे वृद्धविटः कोऽपि ब्राह्मणः शनकैः स्मितहेतुमपृच्छत् ।

ब्रवं च - 'कथमिव नारिकेलजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्य-

 
पदचन्द्रिका ।
 

 
न्
नमहिमा प्राप्तमहिमा । प्राणभूतः प्राणतुल्यः । उदासीनस्य भाव औदासीन्यम् ।
अपि चायमिति । त्रपया लज्जया । साध्वसेन भयेन । विवृण्वाते । कामाघ्रातया।
मदनस्पृष्टयेत्यर्थः । रहस्यरक्षणाय गुह्यरक्षणाय । लब्धलक्षो लब्धावसरः । एव-
मिति । भूयोभूयो वारंवारम् । पञ्चबाणो मदनः ॥
 

निगमो वणिग्ग्रामः । 'निगमः सुरे । वेदे वणिक्पथे मार्गे इति महीपः ।
नैगमानां वणिजाम् । ताम्रचूडः कुक्कुटः । 'कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः

 
भूषणा ।
 

 
'निगमो विषये वेदे पुरे पथि वणिक्पथे' । नैगमानां वणिजाम् । 'नैगमो वाणिजो
वणिक्' इत्यमरः । ताम्रचूडः कुक्कुटः । 'कृकवाकुस्ताम्रचूडः कुक्कुटः' इत्यमरः ।

नारिकेलजातिर्बलाकाजाति श्वेचेति द्वौ कुक्कुटविशेषौ । 'दीर्घग्रीवः सितवपुर्महा-

 
लघुदीपिका ।
 
1
 

 
स्यादसत्याप्रिययोरपि' इति सज्जनः । लब्धलक्षो लब्धावसरः । निगमो वणि-
ग्ग्रामः । 'निगमो विषये वेदे पुरे पथि वणिक्पथे' । नैगमानां वणिजाम् । ताम्र-
चूडः कुक्कुटः । 'कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः' । नारिकेलजातिर्बलाका-
पाठा०-

 
[^
]G. 'लब्धक्षणो', 'लब्धलक्षणो'.