This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् । १९९
 
प्रतिनिवृत्य दृष्ट्टैव त्वां यथावदभ्यजानाम् – 'कथं मत्सुत एवायं
वत्स स्यार्थपालस्य प्राणभूतः सखा प्रमतिरिति पापया मयास्मिन्न-
ज्ञानादौदासीन्यमाचरितम् । अपि चायमस्यामासक्तभावः । कन्या
चैनं कामयते युवानम् । उभौ चेमौ लक्षसुप्तौ त्रपया साध्वसेन
वान्योन्यमात्मानं न विवृण्वाते । गन्तव्यं च मया । कामाघ्रात-
याप्यनया कन्यया रहस्यरक्षणाय न समाभाषितः सखीजनः परि-
जनो वा । नयामि तावत्कुमारम् । पुनरपीममर्थ लेब्धलक्षो
यथोपपन्नैरुपायैः साधयिष्यति' इति मत्प्रभावप्रस्थापितं भवन्तमे-
तदेव पत्रशयनं प्रत्यनैषम् । एवमिदं वृत्तम् । 'एषा चाहं पितुस्ते
पादमूलं प्रत्युपसर्पेयम्' इति प्राञ्जलिं मां भूयोभूयः परिष्वज्य
शिरस्युपाघ्राय कपोलयोचुम्बित्वा स्नेहविहला गतासीत् । अहं च
पञ्चबाणवश्यः श्रावस्तीमभ्यवर्तिषि ।
 
मार्गे च महति निगमे नैगमानां ताम्रचूडयुद्धकोलाहलो
महानासीत् । अहं च तत्र संनिहितः किंचिदस्मेषि । संनिधिनि-
वण्णस्तु मे वृद्धविटः कोऽपि ब्राह्मणः शनकैः स्मितहेतुमपृच्छत् ।
अनवं च - 'कथमिव नारिकेलजातेः प्राच्यवाटकुक्कुटस्य प्रतीच्य-
पदचन्द्रिका ।
 
नमहिमा प्राप्तमहिमा । प्राणभूतः प्राणतुल्यः । उदासीनस्य भाव औदासीन्यम् ।
अपि चायमिति । त्रपया लज्जया । साध्वसेन भयेन । विवृण्वाते । कामाघ्रातया।
मदनस्पृष्टयेत्यर्थः । रहस्यरक्षणाय गुह्यरक्षणाय । लब्धलक्षो लब्धावसरः । एव-
मिति । भूयोभूयो वारंवारम् । पञ्चबाणो मदनः ॥
 
निगमो वणिग्ग्रामः । 'निगमः सुरे । वेदे वणिक्पथे मार्गे इति महीपः ।
नैगमानां वणिजाम् । ताम्रचूडः कुक्कुटः । 'कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः
भूषणा ।
 
'निगमो विषये वेदे पुरे पथि वणिक्पथे' । नैगमानां वणिजाम् । 'नैगमो वाणिजो
वणिक्' इत्यमरः । ताम्रचूडः कुकुटः । 'कृकवाकुस्ताम्रचूडः कुकुटः' इत्यमरः ।
नारिकेलजातिर्बलाकाजाति श्वेति द्वौ कुक्कुटविशेषौ । 'दीर्घग्रीवः सितवपुर्महा-
लघुदीपिका ।
 
1
 
स्यादसत्याप्रिययोरपि' इति सज्जनः । लब्धलक्षो लब्धावसरः । निगमो वणि-
ग्ग्रामः । 'निगमो विषये वेदे पुरे पथि वणिक्पथे' । नैगमानां वणिजाम् । ताम्र-
चूडः कुक्कुटः । 'कृकवाकुस्ताम्रचूडः कुक्कुटश्चरणायुधः' । नारिकेलजातिर्बलाका-
पाठा०-१ 'लब्धक्षणो', 'लब्धलक्षणो'.