2023-09-02 16:15:10 by Lakshmainarayana achar

This page has been fully proofread twice.

सरामीति प्रस्थितायामेव मयि त्वमत्राभ्युपेत्य [^१]'प्रतिपन्नोऽस्मि
शरणमिहत्यां देवताम्' इति प्रसुप्तोऽसि । एवं शापदुःखाविष्टया
तु मया तदा न तत्त्वतः परिच्छिन्नो भवान्, अपि तु शरणागत-
[^२]भविरलप्रमादायामस्यां महाटव्यामयुक्तं परित्यज्य गन्तुमिति मया त्वमपि स्वपन्नेवासि नीतः । प्रत्यासन्ने च तस्मिन्देवगृहे पुनरचिन्तयम् – 'कथमिह तरुणेनानेन सह समाजं गमिष्यामि' इति । अथ राज्ञः श्रावस्तीश्वरस्य यथार्थनाम्नो धर्मवर्धनस्य कन्यां
नवमालिकां घर्मकालसुभगे कन्यापुरविमानहर्म्यतले विशाल-
कोमलं शय्यातलमधिशयानां यदृच्छयोपलभ्य 'दिष्ट्येयं सुप्ता,
परिजनश्च [^३]गाढनिद्रः । शेतामयमत्र मुहूर्तमात्रं ब्राह्मणकुमारो
यावत्कृतकृत्या निवर्तेय' इति त्वां तत्र शाययित्वा तमुद्देशमग-
मम् । दृष्ट्वा चोत्सवश्रियम्, निर्विश्य च स्वजनदर्शनसुखमभि-
वाद्य च त्रिभुवनेश्वरमात्मालीकप्रत्याकलनोपारूढसाध्वसं च नम-
स्कृत्य भक्तिप्रणत [^४]हृदयां भगवतीमम्बिकाम्, तया गिरिदुहित्रा देव्या सस्मितम् 'अयि भद्रे, मा भैषीः । भवेदानीं भर्तृपार्श्वगामिनी । गतस्ते शापः' इत्यनुगृहीता सद्य एव प्रत्यापन्नमहिमा
 
पदचन्द्रिका ।
 
अभिसरामि गच्छामि । तत्त्वतः सत्यतः । अविरलप्रमादायां बहुतरप्रमादायाम् । प्रत्यासन्ने समीपवर्तिनि । अचिन्तयं चिन्तितवानस्मि । समाजं सधर्मिणां समूहम् ।
अथेति । श्रावस्तीश्वरस्य धर्मवर्धनस्य तन्नाम्नः । यदृच्छया दैवयोगेन । उपलभ्य प्राप्य । दिष्ट्याऽदृष्टेन । परिजनः सेवकजनः । मुहूर्तमात्रं घटिकाद्वयमात्रम् । शाययित्वा निद्रां कारयित्वा उद्देशं प्रदेशम् । आत्मनः स्वस्यालीकमात्मापराधम् । 'अलीकमपराधः स्यादसत्याप्रिययोरपि' इति सज्जनः । प्रत्याकलनं साक्षात्करणम् ।
उपारूढं जातं साध्वसं ययेति क्रियाविशेषणम् । गिरिदुहित्रा पर्वतपुत्र्या । प्रत्याप-
 
भूषणा ।
 
बुद्ध्या प्रस्थितायामित्यर्थः । निर्विश्यानुभूय । आत्मालीकेत्यादि क्रियाविशेषणम् । 'अलीकं त्वप्रियेऽनृते' इत्यमरः । लब्धलक्षो लब्धावसरः । निगमः ।
 
लघुदीपिका ।
 
प्रदाय (?) । 'राजराजो धनाधिपः' । आत्मालीकमात्मापराधम् । 'अलीकमपराधः
 
[^१]G. 'प्रपन्नोऽस्मि'.
[^२]G. 'मविरत'.
[^३]G. 'गाढसुप्त: :
[^४]G. 'हृदया'.