2023-05-18 02:10:44 by ambuda-bot
This page has not been fully proofread.
१९८
दशकुमारचरितम् ।
[पञ्चमः
तु
सरामीति प्रस्थितायामेव मयि त्वमत्राभ्युपेत्य 'प्रतिपन्नोऽस्मि
शरणमिहत्यां देवताम्' इति प्रसुप्तोऽसि । एवं शापदुःखाविष्टया
तु मया तदा न तत्त्वतः परिच्छिन्नो भवान्, अपि तु शरणागत-
भविरलप्रमादायामस्यां महाटव्यामयुक्तं परित्यज्य गन्तुमिति मया
त्वमपि स्वपन्नेवासि नीतः । प्रत्यासन्ने च तस्मिन्देवगृहे पुनरचि-
न्तयम् – 'कथमिह तरुणेनानेन सह समाजं गमिष्यामि' इति ।
अथ राज्ञः श्रावस्तीश्वरस्य यथार्थनाम्नो धर्मवर्धनस्य कन्यां
नवमालिकां घर्मकालसुभगे कन्यापुरविमानहर्म्यतले विशाल-
कोमलं शय्यातलमधिशयानां यदृच्छयोपलभ्य 'दिष्ट्येयं सुप्ता,
परिजनश्च गौढनिद्रः । शेतामयमत्र मुहूर्तमात्रं ब्राह्मणकुमारो
यावत्कृतकृत्या निवर्तेय' इति त्वां तत्र शाययित्वा तमुद्देशमग-
मम् । दृष्ट्वा चोत्सवश्रियम्, निर्विश्य च स्वजनदर्शनसुखमभि-
वाद्य च त्रिभुवनेश्वरमात्मालीकप्रत्याकलनोपारूढसाध्वसं च नम-
स्कृत्य भक्तिप्रणतहृदयां भगवतीमम्बिकाम्, तया गिरिदुहित्रा
देव्या सस्मितम् 'अयि भद्रे, मा भैषीः । भवेदानीं भर्तृपार्श्वगा-
मिनी । गतस्ते शापः' इत्यनुगृहीता सद्य एव प्रत्यापन्नमहिमा
पदचन्द्रिका ।
अभिसरामि गच्छामि । तत्त्वतः सत्यतः । अविरलप्रमादायां बहुतरप्रमादायाम् ।
प्रत्यासन्ने समीपवर्तिनि । अचिन्तयं चिन्तितवानस्मि । समाजं सधर्मिणां समूहम् ।
अथेति । श्रावस्तीश्वरस्य धर्मवर्धनस्य तन्नाम्नः । यदृच्छया दैवयोगेन । उप-
लभ्य प्राप्य । दिष्ट्याऽदृष्टेन । परिजनः सेवकजनः । मुहूर्तमात्रं घटिकाद्वयमात्रम् ।
शाययित्वा निद्रां कारयित्वा उद्देशं प्रदेशम् । आत्मनः स्वस्यालीकमात्मापराधम् ।
'अलीकमपराधः स्यादसत्याप्रिययोरपि' इति सज्जनः । प्रत्याकलनं साक्षात्करणम् ।
उपारूढं जातं साध्वसं ययेति क्रियाविशेषणम् । गिरिदुहित्रा पर्वतपुत्र्या । प्रत्याप-
भूषणा ।
बुद्ध्या प्रस्थितायामित्यर्थः । निर्विश्यानुभूय । आत्मालीकेत्यादि क्रियाविशेष-
गम् । 'अलीकं त्वप्रियेऽनृते' इत्यमरः । लब्धलक्षो लब्धावसरः । निगमः ।
लघुदीपिका ।
प्रदाय (?) । 'राजराजो धनाधिपः । आत्मालीकमात्मापराधम् । 'अलीकमपराधः
पाठा० - १ 'प्रपन्नोऽस्मि'. २ 'मविरत'. ३ 'गाढसुस : '. ४ 'हृदया'.