2023-07-19 16:01:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् । १९७
क्षामक्षामापि देवतानुभावाद्नतिक्षीणवर्णावकाशा सीमन्तिनी,

प्रणिपतन्तं मां प्रहर्षोत्कम्पितेन भुजलताद्वयेंयेनोत्थाय्य पुत्रवत्परि-
ध्

ष्
वज्य शिरस्युपाघ्राय वात्सल्यमिव स्तनयुगलेन स्तन्यच्छलात्प्र-

क्षरन्ती, शिशिरेणाश्रुणा निरुद्धकण्ठी स्नेहगद्दं व्याहार्षीत्
-
'वत्स, यदि वः कथितवती मगधराजमहिषी वसुमती मम, हस्ते

बालमर्थपालं निधाय कथां च कांचिदात्मभर्तृपुत्रसतीखीजनानु-

बद्धां राजराजप्रवर्तितां कृत्वान्तर्धानमगादात्मजा मणिभद्रस्येति,

सहमस्मि वो जननी । पितुर्वो धर्मपालसूनोः [^१]सुमंमन्त्रानुजस्य

कामपालस्य पादमूलान्निष्कारणकोपकलुषिताशया प्रोष्यांयानुशयवि-

धुरा स्वप्ने केनापि रक्षोरूपेणोपेत्य शप्तास्मि–'चण्डिकायां त्वयि

वर्षमात्रं वसामि प्रवासदु:खाय' इति ब्रूवतैवाहमाविष्टा प्राबुध्ये ।

गतं च तद्वर्षं वर्षसहस्रदीर्घम् । अतीतायां तु थायामिन्यां देव-

देवस्य त्र्यम्बकस्य श्रावस्त्यामुत्सवसमाजमनुभूय बन्धुजनं च

स्थानस्थानेभ्यः संनिपे [^२]पतितमभिसमीक्ष्य मुक्तशापा पत्युः पार्श्वमत्रिभि-

 
पदचन्द्रिका ।
 

 
तिक्षीणापि । देवतानुभावाद्देवतासामर्थ्यात् । अनतिक्षीणवर्णा नातिक्षीणो वर्णो
यस्याः सेति तथा । प्रणिपतन्तं नमस्कारं कुर्वन्तम् । परिष्वज्यालिङ्ग्य । वत्सलस्य
भावो वात्सल्यम् । स्तने भवं स्तन्यं दुग्धं तस्य छलात् । प्रक्षरन्ती स्रवन्ती । व्याहा-
र्षीत् । अवोचदित्यर्थः । मगधराजस्य महिषी । 'कृताभिषेका महिषी' इत्यमरः ।
आत्मजा कन्या । वो युष्माकम् । जननी माता । निष्कारणकोपो निरर्थक-
क्रोधः । कलुषिताशया मलिनचित्ता । प्रोष्य प्रवासं कृत्वा । उपेत्य प्राप्य । शप्तास्मि
दत्तशापास्मीत्यर्थः । आविष्टावेशं प्राप्ता । दीर्घमतिमहत् । यामिन्यां रात्रौ ।

श्रावस्त्यामेतन्नाम्न्यां नगर्याम् । संनिपतितमागतम् । अभिसमीक्ष्य
दृष्ट्वे
त्यर्थः ।
 

 
भूषणा ।
 

 
जराड्गशृङ्गादिनिर्मितो वलयाकृतिर्भूषणविशेषः । मगधराजो राजहंसः । राजरा-
जप्रवर्तितां कुबेरप्रोक्ताम् । 'राजराजो धनाधिपः इत्यमरः । शौनकः शुद्र
इत्यादिकाम् । मणिभद्रस्यात्मजा तारावली । यो जनरीनी भवत्पित्रपेक्षया काने-
कनिष्ठस्य पितृव्यस्य पत्नीति । निष्कारणकोपादोजद्गोत्रस्खलनकोपात् । चण्डिकायाम-

त्यन्तकोपवत्याम् । मुक्तशापा नष्टशापा सती । इति प्रस्थितायाम् । इति
 
पाठा०-

 
[^
]G. 'सुमित्रा'.
[^
]G. 'समापतित'.