This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् । १९७
क्षामक्षामापि देवतानुभावाद्नतिक्षीणवर्णावकाशा सीमन्तिनी,
प्रणिपतन्तं मां प्रहर्षोत्कम्पितेन भुजलताद्वयेंनोत्थाय्य पुत्रवत्परि-
ध्वज्य शिरस्युपाघ्राय वात्सल्यमिव स्तनयुगलेन स्तन्यच्छलात्प्र-
क्षरन्ती, शिशिरेणाश्रुणा निरुद्धकण्ठी स्नेहगद्दं व्याहार्षीत्
'वत्स, यदि वः कथितवती मगधराजमहिषी वसुमती मम, हस्ते
बालमर्थपालं निधाय कथां च कांचिदात्मभर्तृपुत्रसतीजनानु-
बद्धां राजराजप्रवर्तितां कृत्वान्तर्धानमगादात्मजा मणिभद्रस्येति,
सहमस्मि वो जननी । पितुर्वो धर्मपालसूनोः सुमंत्रानुजस्य
कामपालस्य पादमूलान्निष्कारणकोपकलुषिताशया प्रोष्यांनुशयवि- ।
धुरा स्वप्ने केनापि रक्षोरूपेणोपेत्य शप्तास्मि–'चण्डिकायां त्वयि
वर्षमात्रं वसामि प्रवासदु:खाय' इति ब्रूवतैवाहमाविष्टा प्राबुध्ये ।
गतं च तद्वर्षं वर्षसहस्रदीर्घम् । अतीतायां तु थामिन्यां देव-
देवस्य त्र्यम्बकस्य श्रावस्त्यामुत्सवसमाजमनुभूय बन्धुजनं च
स्थानस्थानेभ्यः संनिपेतितमभिसमीक्ष्य मुक्तशापा पत्युः पार्श्वमत्रि-
पदचन्द्रिका ।
 
तिक्षीणापि । देवतानुभावाद्देवतासामर्थ्यात् । अनतिक्षीणवर्णा नातिक्षीणो वर्णो
यस्याः सेति तथा । प्रणिपतन्तं नमस्कारं कुर्वन्तम् । परिष्वज्यालिजय । वत्सलस्य
भावो वात्सल्यम् । स्तने भवं स्तन्यं दुग्धं तस्य छलात् । प्रक्षरन्ती स्रवन्ती । व्याहा-
त् । अवोचदित्यर्थः । मगधराजस्य महिषी । 'कृताभिषेका महिषी' इत्यमरः ।
आत्मजा कन्या । वो युष्माकम् । जननी माता । निष्कारणकोपो निरर्थक-
क्रोधः । कलुषिताशया मलिनचित्ता । प्रोष्य प्रवासं कृत्वा । उपेत्य प्राप्य । शप्तास्मि
दत्तशापास्मीत्यर्थः । आविष्यवेशं प्राप्ता । दीर्घमतिमहत् । यामिन्यां रात्रौ ।
श्रावस्त्यातयां नगर्याम् । संनिपतितमागतम् । अभिसमीक्ष्य इत्यर्थः ।
 
भूषणा ।
 
खजराङ्गादिनिर्मितो वलयाकृतिर्भूषणविशेषः । मगधराजो राजहंसः । राजरा-
जप्रवर्तितां कुबेरप्रोक्ताम् । 'राजराजो धनाधिपः इत्यमरः । शौनकः शुहक
इत्यादिकाम् । मणिभद्रस्यात्मजा तारावली । यो जनरी भवपित्रपेक्षया काने-
ठस्य पितृव्यस्य पत्नीति । निष्कारणकोपादोजस्खलनकोपात् । चण्डिकायाम-
त्यन्तकोपवत्याम् । मुक्तशापा नष्टशापा सती । इति प्रस्थितायाम् । इति
 
पाठा०-१ 'सुमित्रा'. २ 'समापतित'.