2023-09-02 16:15:26 by Lakshmainarayana achar

This page has been fully proofread twice.

तस्मिन्नेव शयने सचकितमशयिष्ट । अजनिष्ट मे रागाविष्टचेत-
सोऽपि किमपि निद्रा । पुनरननुकूलस्पर्शदुःखायत्तगात्रः प्राबुध्ये ।
प्रबुद्धस्य च सैव मे महाटवी, तदेव तरुतलम्, स एव पत्रा-
स्तरोऽभूत् । विभावरी च [^१]व्यभासीत् । अभूच्च मे मनसि
किमयं स्वप्नः, किं विलम्भो वा, किमियमासुरी दैवी वा कापि
माया । यद्भावि तद्भवतु । नाहमिदं तत्त्वतो नावबुध्य मोक्ष्यामि
भूमिशय्याम् । यावदायुरत्रत्यायै देवतायै [^२]प्रतिशयितो भवामि'
इति निश्चितमतिरतिष्ठम् ।
अथाविर्भूय कापि रविकराभितप्तकुवलयदामतान्ताङ्गयष्टिः,
[^३]क्लिष्टनिवसनोत्तरीया, निरलक्तकरूक्षपाटलेन निःश्वासोष्मजर्जरितत्विषा दन्तच्छदेन वमन्तीव कपिलधूमधूम्रं विरहानलम्, अनवरतसलिलधाराविसर्जनाद्रुधिरावशेषमिव लोहिततरं द्वितयमक्ष्णोरुद्वहन्ती, कुलचारित्रबन्धनपाश- विभ्रमेणैकवेणीभूतेन केशपाशेन [^५]नीलांशुकचीरचूडिकापरिवृता पतिव्रतापताकेव संचरन्ती,
 
पदश्चन्द्रिका ।
 
दुःखायमानं गात्रं यस्येति सः । विभावरी रात्रिः । 'विभावरीतमस्वि- न्यौ रजनी 'यामिनी तमी' इत्यमरः । व्यभासीत् । विभाताभूदित्यर्थः । असुरस्येयमासुरी । देवस्येयं दैवी । तत्त्वतः सत्यत्वेन । याव- दायुर्यावदायुष्यम् । प्रतिशयितः कृतशय्यः ॥
अथेति । आविर्भूय प्रकटीभूथ । रविकरैः सूर्यकिरणै: अभितप्तं यत्कुवलयदाम तद्वत्तान्ता क्लान्ताङ्गयष्टिः शरीरयष्टिर्यस्याः । किष्टं जीर्णं निवसनोत्तरीयं यस्याः सा । दन्तच्छदेनौष्ठेन । कपिल: पिङ्गलः । 'कडारः कपिलः पिङ्गपिशङ्गौ कद्रुपिङ्गलौ' इत्यमरः । धूम्रं किंचिदारक्तश्यामम् । 'धूम्रधूमलौ कृष्णलोहिते' इत्यमरः। लोहिततरमत्यारक्तम् । अनवरतं निरन्तरम् । सलिलधारा जलपरम्परा । एकवेणीभूतेनाद्वितीयेन । चूडिका [ कूर्पासः ] पताका वैजयन्ती । क्षामक्षामाप्य-
 
भूषणा ।
 
इत्येकदेशिसमासः । व्यभासीद्भाविताभूत् । यावदायुः 'यावदवधारणे' (२।१।८) इत्यव्ययीभावः । कलापेनोपलक्षिता । चीरचूडिका सुवासिनीभिर्हस्तेषु प्रियमाणः
 
लघुदीपिका ।
 
व्यभासीद्विभाताभूत् । यावत् । 'यावदवधारणे' । नीलांशुकचूलिका । परिदाय -
 
[^१]G. 'व्ययासीत् ' .
[^२]G. 'प्रतिशयिष्यामि'.
[^३]G. 'क्लिन्न'.
[^४]G. 'कलापेन'.
[^५]G. 'अंशुकरचितचीर'.