2023-07-19 15:34:36 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१९६
 
दशकुमारचरितम् ।
 
[ पञ्चमः
 
तस्मिन्नेव शयने सचकितमशयिष्ट । अजनिष्ट मे रागाविष्टचेत-

सोऽपि किमपि निद्रा । पुनरननुकूलस्पर्शदुःखायत्तगात्रः प्राबुध्ये ।

प्रबुद्धस्य च सैव मे महाटवी, तदेव तरुतलम्, स एव पत्रा-

स्तरोऽभूत् । विभावरी च [^१]व्यभासीत् । अभूच्च मे मनसि

किमयं स्वप्नः, किं विलम्भो वा, किमियमासुरी दैवी वा काफि
पि
माया । यद्भावि तद्भवतु । नाहमिदं तत्त्वतो नावबुध्य मोक्ष्यामि

भूमिशय्याम् । यावदायुरत्रत्यायै देवतायै [^२]प्रेतिशयितो भवामि'

इति निश्चितमतिरतिष्ठम् ।
 

अथाविर्भूय कापि रविकराभितप्तकुवलयदामतान्ताङ्गयष्टिः,
वि

[^३]क्लि
ष्टनिवसनोत्तरीया, निरलक्तकरूक्षपाटलेन निःश्वासोष्मजर्ज-
रितत्विषा दन्तच्छदेन वमन्तीव कपिलधूमधूम्रं विरहानलम्,
अनवरतसलिलधाराविसर्जनाद्रुधिरावशेषमिव लोहिततरं द्वितयम-
क्ष्णोरुद्वहन्ती, कुलचारित्रबन्धनपाश- विभ्रमेणैकवेणीभूतेन केश-
पाशेन [^५]नीलांशुकचीरचूडिकापरिवृता पतिव्रतापताकेव संचरन्ती,
 

 
पदश्चन्द्रिका ।
 

 

 
दुःखायमानं गात्रं यस्येति सः । विभावरी रात्रिः । 'विभावरीतमखिस्वि- न्यौ रजनी
'यामिनी तमी' इत्यमरः । व्यभासीत् । विभाताभूदित्यर्थः । असुरस्येयमासुरी ।
देवस्येवंयं दैवी । तत्त्वतः सत्यत्वेन । याव- दायुर्यावदायुष्यम् । प्रतिशयितः कृतशय्यः ॥
 

अथेति । आविर्भूय प्रकटीभूथ । रविकरैः सूर्यकिरणै: अभितप्तं यत्कुवलय-
दाम तद्वत्तान्ता क्लान्ताङ्गयष्टिः शरीरयष्टिर्यस्याः । किष्टं जीर्णं निवसनोत्तरीयं
यस्याः सा । दन्तच्छदैनौष्ठेन । कपिल: पिङ्गलः । 'कडारः कपिलः पिंङ्गपिशङ्गों
कडु
गौ कद्रुपिङ्गलौ' इत्यमरः । धूम्रं किंचिदारक्तश्यामम् । 'धूम्रधूमलौ कृष्णलोहिते' इत्य-
रः 1 लोहिततरमत्यारक्तम् । अनवरतं निरन्तरम् । सलिलधारा जलपरम्परा ।
एकवेणीभूतेनाद्वितीयेन । चूडिका [ कूर्पासः ] पताका वैजयन्ती । क्षामक्षामाप्य-
-
 

 
भूषणा ।
 

 
इत्येकदेशिसमासः । व्यभासीद्भाविताभूत् । यावदायुः 'यावदवधारणे' (२८)
इत्यव्ययीभावः । कलापेनोपलक्षिता । चीरचूडिका सुवासिनीभिर्हस्तेषु प्रियमाणः
रु

 
घुदीपिका ।
 

 
व्यभासीद्विभाताभूत् । यावत् । 'यावदवधारणे' । नीलांशुकचूलिका । परिदाय -
पाठा०-

 
[^
]G. 'व्ययासीत् ' .
[^
]G. 'प्रवितिशयिष्यामि'.
[^
'किन']G. 'क्लिन्न'.
[^
]G. 'कलापेन'.

[^
]G. 'अंशुकरचितचीर'.