2023-05-18 02:10:43 by ambuda-bot
This page has not been fully proofread.
१९६
दशकुमारचरितम् ।
[ पञ्चमः
तस्मिन्नेव शयने सचकितमशयिष्ट । अजनिष्ट मे रागाविष्टचेत-
सोऽपि किमपि निद्रा । पुनरननुकूलस्पर्शदुःखायत्तगात्रः प्राबुध्ये ।
प्रबुद्धस्य च सैव मे महाटवी, तदेव तरुतलम्, स एव पत्रा-
स्तरोऽभूत् । विभावरी च व्यभासीत् । अभूच्च मे मनसि
किमयं स्वप्नः, किं विलम्भो वा, किमियमासुरी दैवी वा काफि
माया । यद्भावि तद्भवतु । नाहमिदं तत्त्वतो नावबुध्य मोक्ष्यामि
भूमिशय्याम् । यावदायुरत्रयायै देवतायै प्रेतिशयितो भवामि'
इति निश्चितमतिरतिष्ठम् ।
अथाविर्भूय कापि रविकराभितप्तकुवलयदामतान्ताङ्गयष्टिः,
विष्टनिवसनोत्तरीया, निरलक्तकरूक्षपाटलेन निःश्वासोष्मजर्ज-
रितत्विषा दन्तच्छदेन वमन्तीव कपिलधूमधूम्रं विरहानलम्,
अनवरतसलिलधाराविसर्जनाद्रुधिरावशेषमिव लोहिततरं द्वितयम-
क्ष्णोरुद्वहन्ती, कुलचारित्रबन्धनपाशविभ्रमेणैकवेणीभूतेन केश-
पाशेन नीलांशुकचीरचूडिकापरिवृता पतिव्रतापताकेव संचरन्ती,
पदश्चन्द्रिका ।
।
दुःखायमानं गात्रं यस्येति सः । विभावरी रात्रिः । 'विभावरीतमखिन्यौ रजनी
'यामिनी तमी' इत्यमरः । व्यभासीत् । विभाताभूदित्यर्थः । असुरस्येयमासुरी ।
देवस्येवं दैवी । तत्त्वतः सत्यत्वेन । याबदायुर्यावदायुष्यम् । प्रतिशयितः कृतशय्यः ॥
अथेति । आविर्भूय प्रकटीभूथ । रविकरैः सूर्यकिरणै: अभितप्तं यत्कुवलय-
दाम तद्वत्तान्ता क्लान्ताङ्गयष्टिः शरीरयष्टिर्यस्याः । किष्टं जीर्ण निवसनोत्तरीयं
यस्याः सा । दन्तच्छदैनौष्ठेन । कपिल: पिङ्गलः । 'कडारः कपिलः पिंङ्गपिशङ्गों
कडुपिङ्गलौ' इत्यमरः । धूम्रं किंचिदारक्तश्यामम् । 'धूम्रधूमलौ कृष्णलोहिते' इत्य-
भरः 1 लोहिततरमत्यारक्तम् । अनवरतं निरन्तरम् । सलिलधारा जलपरम्परा ।
एकवेणीभूतेनाद्वितीयेन । चूडिका [ कूर्पासः ] पताका वैजयन्ती । क्षामक्षामाप्य-
-
भूषणा ।
इत्येकदेशिसमासः । व्यभासीद्भाविताभूत् । यावदायुः 'यावदवधारणे' (२११८)
इत्यव्ययीभावः । कलापेनोपलक्षिता । चीरचूडिका सुवासिनीभिर्हस्तेषु प्रियमाणः
रुघुदीपिका ।
व्यभासीद्विभाताभूत् । यावत् । 'यावदवधारणे' । नीलांशुकचूलिका । परिदाय -
पाठा०-१ 'व्ययासीत् ' . २ 'प्रविशयिष्यामि'. ३ 'किन'. ४ 'कलापेन'.
५ 'अंशुकरचितचीर'.