2023-09-02 16:15:36 by Lakshmainarayana achar

This page has been fully proofread twice.

त्वङ्गदग्रपक्ष्मणोश्चक्षुषोरलसतान्ततारकेणानतिपक्व- निद्राकषायितापाङ्गपरभागेन युगलेनेषदुन्मिषन्ती, त्रासविस्मयहर्षरागशङ्का [^१]विलासविभ्रमव्यवहितानि व्रीडान्तराणि कानि कान्यपि कामेनाद्भुतानुभावेनावस्थान्तराणि कार्यमाणा, परिजनप्रबोधनोद्यतां गिरं कामावेगपरवशं हृदयमङ्गानि च साध्वसायास [^२]संबध्यमानस्वेदपुलकानि कथंकथमपि निगृह्य, सस्पृहेण मधुरकूणितत्रिभागेन
मन्दमन्दप्रचारितेन चक्षुषा मदङ्गानि निर्वर्ण्य,दूरोत्सर्पितपूर्वकायापि
 
पदचन्द्रिका ।
 
गात्रभङ्गः । 'जृम्भिका गात्रभङ्गः स्यात्' इत्यजयः । मन्थराङ्गी सुन्दराङ्गी । 'मन्थरौ नम्रसुन्दरौ' इति वैजयन्ती । त्वङ्गच्चलत् । 'त्वगि कम्पने' इति धातुः । त्वङ्गदग्रपक्ष्माणि ययोरिति त्वङ्गदग्रपक्ष्मणोः । अनतिपक्वं किंचिदपक्वम् । किंचिदपरिपूर्णम् । निद्रया कषायः (यितः ) । परभागो गुणोत्कर्षः । कानि
कानीति वक्तुमशक्यानि । गिरं वाचम् । कामावेगपरवशं मदनवेगपराधीनम् । साध्वसं भयम् । आयासः खेदः । अथवा साध्वसमेवायासः । संबध्यमानाः स्वेदपुलका येषु तानि । कूणितः संकुचितः । त्रिभागः । नेत्रप्रान्त इत्यर्थः । निर्वर्ण्य दृष्ट्वेत्यर्थः । उत्सर्पितमूर्ध्वीकृतं पूर्वकायं यस्याः । शयन आस्तरणे । दुःखायत्तं
 
भूषणा ।
 
स्यात्' इत्यजयः । 'जृभि गात्रविनामे' । मन्थराङ्गी सालसाङ्गी ।
त्वङ्गच्चलत् । 'त्वगि कम्पने' । कषायः पीडाविशेषः । अपूर्वपुरुषदर्शनात्त्रासः । आगमप्रकारानवबोधाद्विस्मयः । तदङ्गसङ्गसुखानुभवाद्धर्षः । तत एव रागः । ततो यद्ययं
मां बलात्कारेण करिष्यति स्वाङ्के ततः किं भवेदिति शङ्का । ततो भूषणादीनामस्थाने विन्यासः । अस्रस्तमपि वस्त्रं भूषणं वा स्रस्तमिति पुनस्तद्देशे स्थाप्यते । यथास्थितमपि तद्देशाच्चाल्यते शङ्कापराधीनचित्तेन जनेन । 'अस्थाने भूषणादीनां विन्यासो विभ्रमो मतः' इति रसरत्नहारः । व्रीडा अन्तरा मध्ये येषां तानि । साध्वसेनापरिचितपुरुषदर्शनेनायासेन तदङ्गसङ्गानङ्गपीडया संबध्यमानस्वेदपुलकानि । सात्त्विकभावाविर्भावादिति भावः । मधुरकूणितेति । मधुरं यथा तथा कूणिताः संकोचितास्त्रयो भागा अपाङ्गो मध्यो नासिकासमीपगश्च यस्येत्यर्थः । 'कूण संकोचे' चुरादिरदन्तः । पूर्वं कायस्य । 'पूर्वापराधरोत्तरम् -' (२।२।१ )
 
लघुदीपिका ।
 
लत् । 'त्वगि कम्पने' इति धातुः । विभ्रमो व्यापारः । व्रीडा मध्ये येषाम् । 'आवेगः स्याद्रणरणके' इति वैजयन्ती । साध्वसायासः साध्वसमेवायासः ।
 
[^१]G. 'विन्यास'.
[^२]G. 'संवर्ध्यमान'.