2023-05-18 02:10:44 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् । १९५
त्वङ्गदमपक्ष्मणोञ्चक्षुषोरलस तान्ततारकेणानतिपक्कनिद्राकषायिता-
पाङ्गपरभागेन युगलेनेषदुन्मिषन्ती, त्रासविस्मयहर्षरागशङ्काविला-
सविभ्रमव्यवहितानि ब्रीडान्तराणि कानि कान्यपि कामेनाद्भु-
तानुभावेनावस्थान्तराणि कार्यमाणा, परिजनप्रबोधनोद्यतां गिरं
कामावेगपरवशं हृदयमङ्गानि च साध्वसायासंसंबध्यमानस्वेदपु-
लकानि कथंकथमपि निगृह्य, सस्पृहेण मधुरकूणितत्रिभागेन
मन्दमन्दप्रचारितेन चक्षुषा मदङ्गानि निर्वर्ण्य, दूरोत्सर्पितपूर्वकायापि
पदचन्द्रिका ।
गात्रभङ्गः । 'जृम्भिका गात्रभङ्गः स्यात्' इत्यजयः । मन्थराजी सुन्दराजी ।
'मन्थरौ नम्रसुन्दरौ' इति वैजयन्ती । लङ्गचलत् । 'लगि कम्पने' इति
धातुः । लङ्गदप्रपक्ष्माणि ययोरिति लजदग्रपक्ष्मणोः । अनतिपक्कं किंचिदपकम् ।
किंचिदपरिपूर्णम् । निद्रया कषायः (यितः ) । परभागो गुणोत्कर्षः । कानि
कानीति वक्तुमशक्यानि । गिरं वाचम् । कामावेगपरवशं मदनवेगपराधीनम् ।
साध्वसं भयम् । आयासः खेदः । अथवा साध्वसमेवायासः । संबध्यमानाः खेद -
पुलका येषु तानि । कूणितः संकुचितः । त्रिभागः । नेत्रप्रान्त इत्यर्थः । निर्वर्ण्य
दृष्ट्वेत्यर्थः । उत्सर्पितमूवकृतं पूर्वकायं यस्याः । शयन आस्तरणे । दुःखायत्तं
भूषणा ।
स्यात्' इत्यजयः । 'जृभि गात्रविनामे' । मन्थराङ्गी सालसाङ्गी । लङ्गचलत् ।
'त्वगि कम्पने' । कषायः पीडाविशेषः । अपूर्वपुरुषदर्शनात्रासः । आगमप्रका-
रानवबोधाद्विस्मयः । तदङ्गसङ्गसुखानुभवाद्धर्षः । तत एव रागः । ततो यद्ययं
मां बलात्कारेण करिष्यति खाङ्के ततः किं भवेदिति शङ्का । ततो भूषणादी-
नामस्थाने विन्यासः । अस्रस्तमपि वस्त्रं भूषणं वा स्रस्तमिति पुनस्तद्देशे
स्थाप्यते । यथास्थितमपि तद्देशाचाल्यते शङ्कापराधीनचित्तेन जनेन । 'अस्थाने
भूषणादीनां विन्यासो विभ्रमो मतः' इति रसरत्नहारः । व्रीडा अन्तरा मध्ये येषां
तानि । साध्वसेनापरिचितपुरुषदर्शनेनायासेन तदङ्गसङ्गानङ्गपीडया संबध्यमानस्वेद-
पुलकानि । सात्त्विकभावाविर्भावादिति भावः । मधुरकूणितेति । मधुरं यथा
तथा कूणिताः संकोचितास्त्रयो भागा अपाङ्गो मध्यो नासिकासमीपगश्च यस्येत्यर्थः ।
'कूण संकोचे' चुरादिरदन्तः । पूर्व कायस्य । 'पूर्वापराघरोत्तरम् -' (२।२।१ )
लघुदीपिका ।
लत् । 'लगि कम्पने' इति धातुः । विभ्रमो व्यापारः । व्रीडा मध्ये येषाम्
'आवेगः स्याद्रणरणके' इति वैजयन्ती । साध्वसायासः साध्वसमेवायासः ।
पाठा०-१ 'विन्यास'. २ 'संवर्ध्यमान'.