2023-09-02 16:15:44 by Lakshmainarayana achar
This page has been fully proofread twice.
दिष्ट्या चानुच्छिष्टयौवना, यतः सौकुमार्यमागताः सन्तो-
ऽपि संहता इवावयवाः, प्रस्निग्धतमापि पाण्डुतानुविद्धेव देह-
च्छवि:, स्मरपीडानभिज्ञतया नातिविशदरागो मुखे, विद्रुमद्युति-
रधरमणिः, अनत्यापूर्णमारक्तमूलं चम्पककुड्मलदलमिव कठोरं
कपोलतलम्, अनङ्गबाणपातमुक्ताशङ्कं च विश्रब्धमधुरं सुप्यते,
न चैतद्वक्षःस्थलं निर्दयविमर्दविस्तारितमुखस्तनयुगलम्, अस्ति
चानतिक्रान्तशिष्टमर्यादचेतसो ममास्यामासक्तिः । आसक्त्यनुरूपं
पुनराश्लिष्टा यदि, स्पष्टमार्तरवेणैव सह निद्रां मोक्ष्यति । अथाहं
न शक्ष्यामि चानुपश्लिष्य शयितुम् । अतो यद्भावि तद्भवतु ।
भाग्यमत्र परीक्षिष्ये' इति स्पृष्टास्पृष्टमेव किमप्याविद्धराग-
साध्वसं लक्षसुप्तः स्थितोऽस्मि । सापि किमप्युत्कम्पिना रोमोद्भेद-
वता वामपार्श्वेन सुखायमानेन मन्दमन्दजृम्भिकारम्भमन्थराङ्गी,
पदचन्द्रिका ।
संहता इव मिलिता इव । पाण्डुतायामनुविद्धेव स्यूतेव । विद्रुमं प्रवालं तद्द्युतिस्तत्कान्तिः । अनत्यापूर्णभीषत्पूर्णम् । चम्पकस्य कुड्मलदलं मुकुलपत्रम् । विश्रब्धं विश्वासः । मधुरं सुन्दरम् । अनतिक्रान्ता दूरीकृता शिष्टमर्यादा येनैवंविधं चेतो यस्येति तस्य । अस्यां दृष्टनायिकायाम् । आसक्तिरभिलाषः । अथेति । न
शक्ष्यामि न समर्थोऽस्मि । अनुपश्लिष्यानालिङ्ग्य । शयितुं निद्रां कर्तुम् । भाग्यमदृष्टम् । परीक्षिष्ये परीक्षयामि । पश्यामीत्यर्थः । स्पृष्टास्पृष्टम् । अल्पस्पर्शमित्यर्थः । राग आसक्तिः । साध्वसं भयम् । उत्कम्पिनात्युत्कम्पनशीलेन । जृम्भिका
भूषणा ।
ससी वस्त्रयुग्मम् । परीभोगः । 'उपसर्गस्य घञि-' (६।३।१२२ ) इति दीर्घः । अनङ्गबाणपातमुक्ताशङ्कतया पुरुषसङ्गानभिज्ञया । विरहिणीत्वाभावादिति भावः । अनतिक्रान्तशिष्टमर्यादचेतसो धर्मात्मनोऽस्यामासक्तिरत इयं मदुपभोगयोग्येति व्यङ्ग्यम् । तथा च कालिदासः -- 'असंशयं क्षत्रपरिग्रहक्षमा यदार्यमस्यामभिलाषि
मे मनः । सतां हि संदेहपदेषु वस्तुषु प्रमाणमन्तःकरणप्रवृत्तयः ॥" इति । अथाहं वातःपरम् । अहं त्वित्यर्थः । उत्तानसुप्तेयम् । आविद्धरागसाध्वसम् आविद्धे रागसाध्वसे यस्यां क्रियायाम् । अनुपमस्त्रीलाभाद्रागः । यथेष्टं स्पष्टं चैतदार्तरवं भविष्यतीति साध्वसम् । किमपि । 'किमप्यव्यपदेशे स्यादीषन्मात्रे परात्मनि' इत्यजयः । लक्षसुप्तः तत्रत्यं व्यापारं लक्षयन्सुप्त इवेत्यर्थः । रोमो-
द्भेदवता मदङ्गसङ्गादिति भावः । विजृम्भिका जृम्भणम् । 'जृम्भिका गात्रभङ्गः
लघुदीपिका ।
जयः । 'जृम्भिका गात्रभङ्गः स्यात्' इत्यजयः । 'मन्थरौ नम्रसुन्दरौ' । त्वङ्गच्च-