2023-09-02 16:15:53 by Lakshmainarayana achar

This page has been fully proofread twice.

पल्लवशयनम्, कुतस्त्यं चेदमिन्दुगभस्तिसंभारभासुरं हंसतूलदुकूलशयनम्, एष च को नु शीतरश्मि [^१]किरण- रज्जुदोलापरिभ्रष्टमूर्च्छित इवाप्सरोगण: स्वैरसुप्तः सुन्दरीजन:, का चेयं देवीवारविन्दहस्ता शारदशशाङ्क [^२]मण्डलामलदुकू- लोत्तरच्छदमधिशेते शयनतलम् । न तावदेषा देवयोषा, यतो मन्दमन्दमिन्दुकिरणैः संवाह्यमाना कमलिनीव [^३]संकुचति । भग्नवृन्तच्युतरसबिन्दुशबलितं पाकपाण्डु चूतफलमिवोद्भिन्नस्वेद- रेखमालक्ष्यते गण्डस्थलम् । अभिनवयौवन-[^४]विदाहदुर्लभोष्मणि कुचतटे वैवर्ण्यमुपैति वर्णकम् ।
वाससी च [^५]परिभोगानुरूपधूसरिमाणमादर्शयतः, तदेषा मानुष्येव ।
 
पदचन्द्रिका ।
 
नः' इत्यजयः । कुतस्त्यं कुत आगतम् । इन्दुगभस्तयश्चन्द्रकिरणाः । 'किरणोस्रमयूखांशुगभस्तिघृणिरश्मयः' इत्यमरः । दोला हिन्दो- लिका । शरदि भवं शारदम् । शशाङ्कमण्डलं चन्द्रबिम्बम् । देवयोषा देवस्त्री । संवाह्यमाना मर्द्यमाना । 'संवाहनं मर्दनं
स्यात्' इति कोशः । कमलिनीवेन्दुकिरणैः संकुचति । भवन्तं नष्टप्रसवबन्धनम् । 'वृन्तं प्रसवबन्धनम्' इत्यमरः । शबलितं नानावर्णम् । अभिनवं यद्यौवनं तस्य विशिष्टो यो दाहस्तेन दुर्लभोऽसह्य ऊष्मा यस्मिन् । विवर्णस्य भावो वैवर्ण्यम् । वर्णकमाङ्गरागः । 'वर्णकोऽस्त्री विलेपनम्' इति वैजयन्ती । वाससी वस्त्रे । धूसरिमाणं मलिनत्वम् ।
 
भूषणा ।
 
कुमारस्तस्य शिखरं तदालयाग्रं तत्र शूलं तद्वदुत्सेध उच्छ्रयो यस्य सः । 'शूलमस्त्री रुगायुधम्' इति विश्वः । 'सौधोऽस्त्री राजसदनम्' इत्यमरः । कुतस्त्यम् । अव्ययात्त्यप् । शयनतलम् । 'अधिशीङ्स्थासां - (१।४।४६ ) इति कर्मत्वम् ।
देवयोषा देवस्त्री । 'स्त्री योषिदबला योषा' इत्यमरः । संवाह्यमाना मर्द्यमाना । 'संवाहनं मर्दनं स्यात्' इत्यमरः । यतो निद्राति न देवयोषा । देवानामस्वप्नत्वात् 'आदित्या ऋभवोऽस्वप्नाः' इत्यमरः । वृन्तम् । 'वृन्तं प्रसवबन्धनम्' इत्यमरः। शबलितं नानावर्णम् । वर्णकमङ्गरागः । 'वर्णकोऽस्त्री विलेपनम्' इत्यमरः । वा-
 
लघुदीपिका ।
 
जयः । 'शिखरं मण्डपतलमग्रिमं वृक्षशैलयोः' इत्युत्पलः । उत्सेध उन्नतिः । 'उत्सेधो मध्य उन्नतिः' । शक्तिध्वजो मण्डपतले शूलमग्रे च यस्य । 'अस्त्राण्यारोपयेदग्रे कुमारं स्थापयेत्तले । नन्द्यावर्त इति ख्यातः प्रासादो देवभूभुजाम् ॥' देवयोषा देवस्त्री । 'स्त्री योषिदबला योषा' । संवाह्यमना संमर्द्यमाना । 'संवाहनं मर्दनं स्यात्' । 'वृन्तं प्रसवबन्धनम्' । शबलितं नानावर्णकम् । वर्णकोऽङ्गरागः । 'वर्णकोऽस्त्री विलेपनम्' । 'किमथ व्यपदेशे स्यादीषन्मात्रे परात्मानि' इत्य-
 
[^१]G. 'किरणरजतरज्जु'
[^२]G. 'मण्डलं पर्यंकतलमेतदमल...च्छदमधिशेते'.
[^३]G. 'निद्राति'.
[^४]G. 'निर्भरोष्मणि'.'
[^५]G. 'परीभोग'.
१७ द० कु०