This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम्
 

 
१९३
 
पल्लवशयनम्, कुतस्त्यं चेदमिन्दुगभस्तिसंभारभासुरं हंसतूलदुकूल-
शयनम्, एष च को नु शीतरश्मिकिरंणरज्जुदोलापरिभ्रष्ट-
मूर्च्छित इवाप्सरोगण: स्वैरसुप्तः सुन्दरीजन:, का चेयं देवीवा-
रविन्दहस्ता शारदशशाङ्कर्मण्डलामलढुक्कूलोत्तरच्छदमधिशेते शयन-
तलम् । न तावदेषा देवयोषा, यतो मन्दमन्दमिन्दुकिरणैः
संवामाना कमलिनीव संकुँचति । भग्नवृन्तच्युतरसबिन्दुशवलितं
पाकपाण्डु चूतफलमिवोद्भिन्नस्खेदरेखमालक्ष्यते गण्डस्थलम् ।
अभिनवयौवनविदार्हेदुर्लभोष्मणि कुचतटे वैवर्ण्यमुपैति वर्णकम् ।
वाससी च परिभोगानुरूपधूसरिमाणमादर्शयतः, तदेषा मानुष्येव ।
 
पदचन्द्रिका ।
 
नः' इत्यजयः । कुतस्त्यं कुत आगतम् । इन्दुगभस्तयश्चन्द्रकिरणाः । 'किरणोस्रमयू-
खांशुगभस्तिघृणिरश्मयः' इत्यमरः । दोला हिन्दीलिका । शरदि भवं शारदम् । शशा-
डमण्डलं चन्द्रबिम्बम् । देवयोषा देवस्त्री । संवाह्यमाना मर्यमाना । 'संवाहनं मर्दनं
स्यात्' इति कोशः । कमलिनीवेन्दुकिरणैः संकुचति । भवन्तं नष्टप्रसवबन्धनम् ।
'वृन्तं प्रसवबन्धनम्' इत्यमरः । शबलितं नानावर्णम् । अभिनवं यद्यौवनं तस्य विशि-
ष्टो यो दाहस्तेन दुर्लभोऽसत्य ऊष्मा यस्मिन् । विवर्णस्य भावो चैवर्ण्यम् । वर्णकमारा-
गः । 'वर्णकोऽस्त्री विलेपनम्' इति वैजयन्ती । वाससी वस्त्रे । धूसरिमाणं मलिनलम् ।
 
भूषणा ।
 
कुमारस्तस्य शिखरं तदालयाग्रं तत्र शूलं तद्वदुत्सेघ उच्छ्रयो यस्य सः । 'शूल-
मस्त्री रुगायुधम्' इति विश्वः । 'सौघोऽस्त्री राजसदनम्' इत्यमरः । कुतस्त्यम् ।
अव्ययात्त्यप् । शयनतलम् । 'अधिशीस्थासां - (१।४।४६ ) इति कर्मत्वम् ।
देवयोषा देवस्त्री । 'स्त्री योषिदबला योषा' इत्यमरः । संवाह्यमाना मर्धमाना ।
'संवाहनं मर्दनं स्यात्' इत्यमरः । यतो निद्राति न देवयोषा । देवानामस्वप्नत्वात्
'आदित्या ऋभवोऽस्वप्नाः' इत्यमरः । वृन्तम् । 'वृन्तं प्रसवबन्धनम्' इत्यमरः
शबलितं नानावर्णम् । वर्णकमङ्गरागः । 'वर्णकोऽस्त्री विलेपनम्' इत्यमरः । वा-
लघुदीपिका ।
 
जयः । 'शिखरं मण्डपतलमग्रिमं वृक्षशैलयोः' इत्युत्पलः । उत्सेध उन्नतिः ।
'उत्सेधो मध्य उन्नतिः' । शक्तिध्वजो मण्डपतले शूलमत्रे च यस्य । 'अस्त्राण्या-
रोपयेदप्रे कुमारं स्थापयेत्तले । जन्यावर्त इति ख्यातः प्रासादो देवभूभुजाम् ॥'
देवयोषा देवस्त्री । 'स्त्री योषिदबला योषा' । संकायमाना संमर्थमान्त । 'संवा-
हनं मर्दनं स्यात्' । 'वृन्तं प्रसवबन्धनम्' । शबलितं नानावर्णकम् । वर्णकोऽङ्ग-
रागः । 'वर्णकोऽस्त्री विलेपनम्' । 'किमथ व्यपदेशे स्यादीषन्मात्रे परात्मान' इत्य-
२ 'मण्डलं पर्यकतलमेतदमल...
४ 'निर्भरोष्मणि'.' ५ 'परीभोग'.
 
पाठ०-१ 'किरणरजतरजु'
च्छदमधिशेते'. ३ 'निद्राति'.
 
१७५० कु०
 
PONE