2023-09-02 16:16:03 by Lakshmainarayana achar

This page has been fully proofread twice.

लोत्तरीयाम्, भयसाध्वसमूर्च्छितामिव धरणीम्, अरुणाधरकिरण-
बालकिसलयलास्यहेतुभिराननारविन्दपरिमलोद्वाहिभिर्निःश्वासमा-
तरिश्वभिरीश्वरेक्षणदहनदग्धं स्फुलिङ्गशेषमनङ्गमिव संधुक्षयन्तीम्,
अन्तःसुप्तषट्पदमम्बुजमिव जातनिद्रं सरसमामीलितलोचनेन्दीवरमाननं दधानाम्, ऐरावतमदावलेपलूनापविद्धामिव नन्दनवनकल्पवृक्षरत्नवल्लरीं कामपि तरुणीमालोकयम् । अतर्कयं च – 'क्व गता सा महाटवी, कुत इद [^१]मूर्ध्वाण्डकपालसंपुटोल्लेखि शक्तिध्वज-
शिखरशूलोत्सेधं सौधमागतम्, क्व च तदरण्यस्थलीसमास्तीर्णं
 
पदचन्द्रिका ।
 
पट्टकूले भूर्जदलेऽपि च' इति महीपः । तस्योत्तरीयं यस्यास्ताम् । भयमनुरागः । 'भयं भीत्यनुरागयोः' इति कोशः । तेन साध्वसमूर्च्छितामिव । अरुणस्ताम्रो योऽधरस्तस्य किरणास्त एव बालकिसलयानि तेषां लास्यं नृत्यं तद्धेतुभिः कारणभूतैः ।
परिमलमुद्वहन्ति ते परिमलोद्वाहा( हिन )स्तैः । मातरिश्वभिर्वायुभिः ईश्वरेक्षणं महादेवतृतीयनेत्रम् । संधुक्षयन्ती वर्धयन्ती । षट्पदा भ्रमरा यस्मिंस्तत् । ऐरावत: सुरगजः । मदावलेपो मदगर्वः । लूनां छिन्नाम् । अपविद्धां व्यक्ताम् । कल्पवृक्षरत्नमयी वल्लरी मञ्जरी । 'वल्लरी मञ्जरी स्त्रियौ' इत्यमरः । ऊर्ध्वाण्डमूर्ध्वकपालम् । आकाशमित्यर्थः । 'अप एव ससर्जादौ तासु वीर्यमथासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥ तस्मिजज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । नखैर्हिरण्यगर्भः स तदण्डं बिभिदे समम् ॥ ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ॥" इति मनुः । शक्तिध्वजः सेनानीः । 'सेनानीः क्रौञ्चशत्रुश्च कुमारः शक्तिकृन्त-
 
भूषणा ।
 
कौशेयम् । 'क्षीरोदक' इति भाषायां प्रसिद्धम् । भयसाध्वसेति । घोरसाध्वसमूर्च्छिताम् । 'भयं प्रतिभयं घोरे' इति विश्वप्रकाशः । निःश्वासमातरिश्वभिर्निश्वासमारुतैः । 'श्वसनः स्पर्शनो वायुर्मातरिश्वा सदागतिः' इत्यमरः । ऊर्ध्वाण्डकपालः । आकाश इत्यर्थः । 'अप एव ससर्जादौ तासु वीर्यमथासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् । तस्मिञ्जज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः ।
नखैर्हिरण्यगर्भः स तदण्डं बिभिदे समम् ॥ ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ॥" इति मनुवचनात् ।शक्तिध्वजशिखरशूलोत्सेधम् । शक्तिध्वजः
 
लघुदीपिका ।
 
भयमनुरागः । 'भयं भीत्यनुरागयोः' । ऊर्ध्वाण्डकपालः । आकाश इत्यर्थः । 'अप एव ससर्जादौ तासु वीर्यमथासृजत् । तदण्डमभवद्धैमं सहस्रांशुसमप्रभम् ॥ तस्मिजज्ञे स्वयं ब्रह्मा सर्वलोकपितामहः । नखैर्हिरण्यगर्भः स तदण्डं बिभिदे
समम् ॥ ताभ्यां स शकलाभ्यां च दिवं भूमिं च निर्ममे ॥' इति मनुवचनात् । शक्तिध्वजशिखरशूलोत्सेधम् । 'सेनानीः क्रौञ्चशत्रुश्च कुमारः शक्तिकेतनः' इत्य-
 
[^१]G. 'ऊर्ध्वाण्डसंपुटो',