2023-07-07 15:47:54 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

ततः क्षणादेवावनिदुर्लभेन स्पर्शेनासुखायिषत किमपि गात्राणि,
[^१]आह्लादयिषतेन्द्रियाणि, अभ्यमनायिष्ट चान्तरात्मा, विशेष-
तश्च हृषितास्तनूरुहाः, पर्यस्फुरन्मे दक्षिणभुजः । 'कथं न्विदम्' इति मन्दमन्दमुन्मिषन्नुपर्यच्छचन्द्रातपच्छेदकल्पं शुक्लांशुक- वितानमैक्षिषि ।वामत[^२]श्चलितदृष्टिः समया सौधभित्तिं
चित्रास्तरणशायिनमतिविश्रब्धप्रसुप्तमङ्गनाजनमलक्षयम् । दक्षिणतो दत्तचक्षुरागलितस्तनांशुकाम्, अमृतफेनपटलपाण्डुरशयनशायिनीम्, आदिवराहदंष्ट्रांशुजाललग्नाम्, अंसस्रस्त [^३]दुग्धसागरदुकू-
 
पदचन्द्रिका ।
 
त्यर्थः । अशयिषि निद्रामकरवम् । असुखायिषत सुखानि जातानीत्यर्थः । गात्राणि शरीराणि । आह्लादयिषत । आह्लादं प्रापुरित्यर्थः । हृषिता उदञ्चिता । हृषेरुदञ्चनेऽर्थे
'हृषेर्लोमसु' ( ७।२।२९ ) इतीडागमः । तनूरुहा लोमानि । पर्यस्फुरत् । स्फुरितवानित्यर्थः । अच्छो निर्मलः । चन्द्रातपश्चन्द्रालोकः । छेदकल्पं भङ्गन्यूनम् । वितानमुल्लोचः । ऐक्षिषि दृष्टवान् । चलितदृष्टिश्चक्रीकृतदृष्टिः । समया सौधभित्तिं सौधभित्तेः समीपे । 'समयेऽन्तिकमध्ययोः' इति सामीप्येऽव्ययम् । षष्ठ्यर्थे द्वितीया । विश्रब्धो विश्वस्तः । दक्षिणत इति । पाण्डुरं श्वेतम् । 'शुक्लशुभ्रशुचिश्वेतविशदश्वेतपाण्डुराः ' इत्यमरः । अंसः स्कन्धः । स्रस्तं गलितम् । दुग्धसागरवद्दुकूलं पट्टकूलम् । 'दुकूलं
स्वम्बरे
 
भूषणा ।
 
इत्युपधायेति । उक्त्वेति मध्ये शेषः । तथा च इत्युक्त्वोपधाय वामभुजमित्यन्वयः । असुखायिषत । 'सुखादिभ्यः कर्तृवेदनायाम् (३।१।१८ ) इति क्यङ् । लुङि सिच इट् । आह्लादिषत। 'ह्लादी सुखे च' आत्मनेपदी । लुङ् । अभ्यमनायिष्ट । 'कर्तुः क्यङ्–' ( ३।१।११ ) इति क्यङ् । 'हृषेर्लोमसु' (७।२।२९ ) इति हृषेरुदञ्चनेऽर्थे
इडागमः । पर्यस्फुरद्दक्षिणभुजः । दक्षिणभुजस्पन्द इष्टसमागमसूचकः । तरङ्गिते वसन्तराजः- 'स्पन्दो भुजस्येष्टसमागमाय' इति । वर्णितं कालिदासेन- 'तस्यां रघोः सूनुरुपस्थितायां वृणीत मां नेति समाकुलोऽभूत् । वामेतरः संशयमस्य बाहुः केयूरन्धोच्छ्वसितैर्नुनोद ॥" इति । समया सौधभित्तिं सौधभित्तेः समीपे । 'समया निकषा चेति सामीप्ये
वर्ततेऽव्ययम्' । 'अभितःपरितः - (वा. १४४२) इति द्वितीया । क्षीरसागरदुकूलं श्वेत-
 
लघुदीपिका ।
 
'एकाकी त्वेक एककः' । हृषिता उदञ्चिताः । हृषेरुदञ्चनेऽर्थे इडागमः । 'हृषेर्लोमसु' ( ७।२।२९ ) इति । समया सौधभित्तिं सौघभित्तेः समीपे । 'समया निकषा चेति सामीप्ये वर्ततेऽव्ययम्' इति कोशः । 'अभितः परि-' (वा. १४४२) इति षष्ठ्यर्थे द्वितीया ।
 
[^१]G. 'आह्लादिषत'.
[^२]G. 'वलित'.
[^३]G.' क्षीरसागर',