This page has not been fully proofread.

दशकुमारचरितम् ।
 
पञ्चमोच्छ्रासः ।
 
सोऽपि प्रणम्य विज्ञापयामास – 'देव, देवस्यान्वेषणाय दिक्षु
भ्रमन्नभ्रंकषस्यापि विन्ध्य पार्श्वरूढस्य वनस्पतेरधः, परिणतपतङ्ग-
बालपल्लवावतंसिते पश्चिमदिगङ्गनामुखे पलवलाम्भस्युपस्पृश्योपास्य
संध्याम्, तम:समीकृतेषु निम्नोन्नतेषु, गन्तुमक्षमः क्षमातले
किसलयैरुपरचय्य शय्यां शिशयिषमाणः, शिरसि कुर्वन्नञ्जलिम्,
'यास्मिन्वनस्पतौ वसति देवता सैव मे शरणमस्तु शरारुचऋचा-
रमीषणायां शर्वगलश्यामशार्वरान्धकारपूराध्मातगभीरगह्वरायाम-
स्यां महाटव्यामेककस्य मे प्रसुप्तस्य' इत्युपधाय वामभुजमशयिषि ।
 
१९०
 
[ पञ्चमः
 
पदचन्द्रिका ।
 

 
इदानीं प्रमतिः स्वचरितं प्रवक्तुमुपक्रमते—–—सोऽपि प्रमतिः । अन्वेषणं गवेष-
णम् । अभ्रंकषस्याभ्रंलिहस्य । उच्चस्येति यावत् । अभ्रं व्योम मेघो वा । 'अभ्रं मेघो
वारिवाहः' इत्यमरः । 'योदिवौ द्वे स्त्रियामभ्रम्' इत्यपि । 'सर्वकूल - ' ( ३।२।४२ )
इति खच सुमागमश्च । वनस्पतेरपुष्पवृक्षस्य । 'तैरपुष्पाद्वनस्पतिः' इत्यमरः । परि-
गतः पूर्णः। पतङ्गः सूर्यः। 'पतज्ञौ पक्षिसूर्यौ च' इत्यमरः । स एव बालपल्लवः सोऽ-
वतंसो यस्येति स तस्मिन् । पल्वलमल्पसरः । 'वेशन्तः पल्वलं चाल्पसरः' इत्यमरः ।
उपस्पृश्य । आचम्येत्यर्थः । तमःसमीकृतेषु । अन्धकारपूर्णांकृतेष्वित्यर्थः । किसलयैः
पल्लवैः । 'पल्लवोऽस्त्री किसलयम्' इत्यमरः । उपरचय्य । कृत्वेत्यर्थः । शिशयिषमाणः
शयितुकामः । शरारुर्घातुकः । एवमेवामरः । हिंसकः । प्राणीति यावत् । शर्वगलो
महादेवकण्ठः । शर्वर्या इदं शार्वरम् । आध्मातं पूरितम् । महाटव्यां महारण्ये ।
एककस्यैकाकिनः । 'एकाकी लेक एककः' इत्यमरः । उपधाय । उपधानीकृले-
.
 
भूषणा ।
 
अअंकषस्य व्योमस्पृशः, मेघस्पृशो वा । 'योदिवौ द्वे स्त्रियामत्रं व्योम पुष्करमम्ब-
रम्' । 'अभ्रं मेघो वारिवाहः' इत्युभयत्राप्यमरः । 'सर्वकूलाअकरीषेषु कषः' (३१२॥
४२) इति खच् । 'अरुर्द्विषदजन्तस्य - ( ६।३।६७ ) इति मुम् । उपस्पृश्याचम्य ।
'उपस्पर्शस्त्वाचमनम्' इत्यमरः । एकाकिन एकस्य । 'एकाकी त्वेक एककः' इत्यमरः ।
 

 
लघुदीपिका ।
 
अभ्रंकषस्याअस्पृशः । अभ्रं व्योम मेघो वा । 'द्योदिवौ द्वे स्त्रियामत्रं व्योम
पुष्करमम्बरम्' । 'अभ्रं मेघो वारिवाहः' । 'सर्वकूला भ्रकरीषेषु कषः' (३।२।४२ )
इति खच् मुमागमश्च । 'शरारुर्घातुको हिंस्रः' । आध्मातं पूरितम् । एककस्यैकाकिनः ।
 
पाठा०-१ 'एकाकिन:'.