2023-09-02 16:16:29 by Lakshmainarayana achar

This page has been fully proofread twice.

[^१]निगडसंदितचरणयुगलमवनमितमलिनवदनमश्रुबहलरक्तच-क्षुषमेकान्ते जनयित्रोर्ममादर्शयम् । अकथयं च बिलकथाम् । अथ
पितरौ प्रहृष्टतरौ तं निकृष्टाशयं निशाम्य बन्धने नियम्य तस्या
दारिकाया यथार्हेण कर्मणा मां पाणिमग्राहयेताम् । अनाथकं च
तद्राज्यमस्मदायत्तमेव जातम् । प्रकृतिकोपभयात्तु मन्मात्रा मुमु-
क्षितोऽपि न मुक्त एव सिंहघोषः । तथास्थिताश्च वयमङ्गराजः
सिंहवर्मा देवपादानां भक्तिमान्कृतकर्मा चेत्यमित्राभियुक्तमेनम-
भ्यासराम । अभूवं च भवत्पादपङ्कजरजोनुग्राह्यः । स चेदानीं भव-
च्चरणप्रणामप्रायश्चित्तमनुतिष्ठतु सर्वदुश्चरितक्षालनमनार्यः सिंह-
घोषः' इत्यर्थपाल: प्राञ्जलिः प्रणनाम । देवोऽपि राजवाहनः
'बहु पराक्रान्तम्, बहूपयुक्ता च बुद्धिः, मुक्तबन्धस्ते श्वशुर
पश्यतु माम्' इत्यभिधाय भूयः प्रमतिमेव पश्यन्प्रीतिस्मेर: 'प्रस्तू-
यतां तावदात्मीयं चरितम्' इत्याज्ञापयत् ।
 
इति श्रीदुण्डिनः कृतौ दशकुमारचरितेऽर्थपालचरितं नाम चतुर्थ उच्छ्वासः ।
 
पदचन्द्रिका ।
 
भवनात्' (४।१।८७ ) इति समूहार्थे नञ् । आयसं लौहम् । निगडं शृङ्खला। संदितं बद्धम् । 'बद्धं निगडितं दितम्' इति वैजयन्ती । चरणयुगलं पादद्वन्द्वम्। जनयित्रोर्मातापित्रोः । अदर्शयं दर्शितवान् । अकथयं कथितवान् । तं सिंहघोषम् । निकृष्टाशयं नीचचित्तम् । पाणिं पाणिग्रहणम् । अग्राहयेतां ग्राहितवन्तौ । अस्मदायत्त-मस्मदधीनम् । प्रकृतिकोपभयात्प्रजाक्रोधभयात् । मुमुक्षितोऽपि मोक्तुमिष्टोऽपि । भक्तिमान्भक्तियुक्तः । कृतकर्मा कृतकार्यः । एनं सिंहवर्माणम् । अनार्योऽश्रेष्ठः। सिंहघोषः ।प्रस्तूयतामुपक्रम्यताम् ॥
 
इति श्रीदशकुमारटीकायां पदचन्द्रिकाभिधायां चतुर्थ उच्छ्वासः ॥
 
भूषणा ।
 
इति णमुल् । स्त्रैणं स्त्रीसमूहः । 'स्त्रीपुंसाभ्यां नञ्स्नजौ भवनात् ' ( ४।१।८७ ) इति समूहार्ये नञ् । संदानितं बद्धम् । तस्या दारिकाया आचारवतीकन्यकायाः । अस्मादायत्तमस्मदधीनम् । 'अधीनो निम्न आयत्तः' इत्यमरः । भवत्पादानां भक्तिमान् । राजवाहनसंतोषार्थेयमुक्तिः । पूर्वं तु कथा नाविष्कृता । श्वशुरः
पितृव्यश्वशुरः । कान्तिमतीसंबन्धान्मातुलः ॥
 
इति श्रीदशकुमारटीकायां भूषणाभिधायां चतुर्थ उच्छ्वासः ॥
 
लघुदीपिका ।
 
नात्' ( ४।१।८७ ) इति समूहार्थे नञ् । संदितम् । 'बद्धं निगडितं दितम्' इति वैजयन्ती । अस्मदायत्तमस्मदधीनम् ॥
 
इति लघुदीपिकायां चतुर्थ उच्छ्रासः ॥
 
[^१]G. 'संदानित'.