This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् । १८९
निगर्डसंदितचरणयुगलमवनमितमलिनवदनमश्रुबहलरक्तचक्षुषमे-
कान्ते जनयित्रोर्ममादर्शयम् । अकथयं च बिलकथाम् । अथ
पितरौ प्रहृष्टतरौ तं निकृष्टाशयं निशाम्य बन्धने नियम्य तस्या
दारिकाया यथार्हेण कर्मणा मां पाणिमग्राहयेताम् । अनाथकं च
तद्राज्यमस्मदायत्तमेव जातम् । प्रकृतिकोपभयातु मन्मात्रा मुमु
क्षितोऽपि न मुक्त एव सिंहघोषः । तथास्थिताञ्च वयमङ्गराजः
सिंहवर्मा देवपादानां भक्तिमान्कृतकर्मा चेत्यमित्राभियुक्तमेनम-
भ्यासराम । अभूवं च भवत्पादपङ्कजरजोनुग्राह्यः । स चेदानीं भव-
चरणप्रणामप्रायश्चित्तमनुतिष्ठतु सर्वदुश्चरितक्षालनमनार्यः सिंह-
घोषः' इत्यर्थपाल: प्राञ्जलिः प्रणनाम । देवोऽपि राजवाहनः
'बहु पराक्रान्तम्, बहूपयुक्ता च बुद्धिः, मुक्तबन्धस्ते श्वशुर
पश्यतु माम् इत्यभिधाय भूयः प्रमतिमेव पश्यन्त्रीतिस्मेर : 'प्रस्तू-
यतां तावदात्मीयं चरितम्' इत्याज्ञापयत् ।
 
इति श्रीदुण्डिनः कृतौ दशकुमारचरितेऽर्थपालचरितं नाम चतुर्थ उच्छ्वासः ।
 
पदचन्द्रिका ।
 
भवनात्' (४।११८७ ) इति समूहार्थे नञ् । आयसं लौहम् । निगडं शृङ्खला संदितं
बद्धम् । 'बद्धं निगडितं दितम्' इति वैजयन्ती । चरणयुगलं पादद्वन्द्वम्। जनयित्रो-
र्मातापित्रोः । अदर्शयं दर्शितवान् । अकथयं कथितवान् । तं सिंहघोषम् । निकृष्टा-
शयं नीचचित्तम् । पाणिं पाणिग्रहणम् । अग्राहयेतां ग्राहितवन्तौ । अस्मदायत्त-
मस्मदधीनम् । प्रकृतिकोपभयात्प्रजाक्रोधभयात् । मुमुक्षितोऽपि मोक्तुमिष्टोऽपि ।
भक्तिमान्भक्तियुक्तः । कृऩकर्मा कृतकार्यः । एनं सिंहवर्माणम् । अनार्योऽश्रेष्ठः
सिंहघोषः । प्रस्तूयतामुपक्रम्यताम् ॥
 
इति श्रीदशकुमारटीकायां पदचन्द्रिकाभिधायां चतुर्थ उच्छ्रासः ॥
 
भूषणा ।
 
इति णमुल् । स्त्रैणं स्त्रीसमूहः । 'स्त्रीपुंसाभ्यां नञ्त्रजौ भवनात् ' ( ४१११८७ ) इति
समूहार्ये नन् । संदानितं बद्धम् । तस्या दारिकाया आचारवतीकन्यकायाः ।
अस्मादायत्तमस्मदधीनम् । 'अधीनो निम्न आयत्तः इत्यमरः । भवत्पादानां
भक्तिमान् । राजवाहनसंतोषार्थेय मुक्तिः । पूर्व तु कथा नाविष्कृता । वशुरः
पितृव्यश्वशुरः । कान्तिमतीसंबन्धान्मातुलः ॥
 
इति श्रीदशकुमारटीकायां भूषणाभिधायां चतुर्थ उच्छ्रासः ॥
लघुदीपिका ।
 
नातू' ( ४।११८७ ) इति समूहार्थे नञ् । सँदितम् । 'बद्धं निगडितं दितम्' इति वैज-
यन्ती । अस्मदायत्तमस्मदधीनम् ॥ इति लघुदीपिकायां चतुर्थ उच्छ्रासः ॥
 
पाठा०-१ 'संदानित'.