2023-09-03 13:55:49 by Lakshmainarayana achar

This page has been fully proofread twice.

नाप्यक्षय्यम्' इति । स तथोक्त्वा निजवासगृहस्य [^१]द्व्यङ्गुलभित्तावर्धपादं किष्कुविष्कम्भमुद्धृत्य तेनैव द्वारेण स्थानमिदमस्मानवीविशत् । इह च नो वसन्तीनां द्वादशसमाः समत्ययुः । इयं च वत्सा तरुणीभूता । न चाद्यापि स्मरति राजा । काममियं पितामहेन दर्पसाराय संकल्पिता । त्वदम्बया कान्तिमत्या चेयं गर्भस्थैव द्यूतजिता स्वमात्रा तवैव जायात्वेन समकल्प्यत । तदत्र प्राप्तरूपं चिन्त्यतां कुमारेणैव' इति । तां पुनरवोचम् - 'अद्यैव राजगृहे किमपि कार्यं साधयित्वा प्रतिनिवृत्तो युष्मासु यथार्हं प्रति इति । तेनैव दीपदर्शितबिलपथेन गत्वा स्थितेऽर्धरात्रे तदर्धपादं प्रत्युद्धृत्य वासगृहं प्रविष्टो विश्रब्धसुप्तं सिंहघोषं जीवग्राहमग्रहीषम् । आकृष्य च तमहिमिवाहिशत्रुः स्फुरन्तममुनैव भित्तिरन्ध्रपथेन स्त्रैणसंनिधिमनैषम् । आनीय च स्वभवनमायस-
 
पदचन्द्रिका ।
 
प्रज्ञा' इति कोशः । प्रचुरपरिबर्हया प्रचुरपरिवारया । 'परिबर्हं तु राजार्हवस्तुन्यपि परिच्छदे' इति विश्वः । संवर्ध्यताम् । अस्तीति । भोग्यं वस्तु । भोगार्हमित्यर्थः । अक्षय्यमशक्यक्षयम् । 'क्षय्यजय्यौ शक्यार्थे' (६।१।८१ ) इति निपातनात् । 'क्षि क्षये' । द्व्यङ्गुलभित्तावङ्गुलद्वयपरिमाणभित्तौ । अर्धपादं प्रस्तरपिधानम् । किष्कुविष्कम्भं हस्तपरिणाहम् । वितस्तिपरिणाहं वा । 'किष्कुर्हस्ते वितस्तौ च ' इत्यमरः । 'परिणाहस्तु विष्कम्भः' इति वैजयन्ती । अस्मान्मत्प्रभृतिकन्याजनान् । अवीविशत् ।
प्रवेशं कारयति स्मेत्यर्थः । समत्ययुरतिक्रान्ताः । जायात्वेन स्त्रीत्वेन । प्राप्तरूपं कर्तव्यरूपम् । प्रतिनिवृत्तः परावृत्यागतः । युष्मासु भवतीषु । यथार्हं यथायोग्यम् । प्रतिपत्स्ये वर्तिष्ये । बिलपथेन छिद्रमार्गेण । जीवग्राहं जीवं गृहीत्वेति तथा । णमुल् । अहिमिव सर्पमिव । अहिशत्रुर्गरुडः । अथवाहिमिव वृत्रासुरमिव । अहिशत्रुरिन्द्रः । स्त्रैणं स्त्रीणां समूहस्तथा । 'स्त्रीपुंसाभ्यां नञ्स्नञौ
 
भूषणा ।
 
अक्षय्यम् । 'क्षय्यजय्यौ शक्यार्थे (६।१।८१) इति निपातनात् । अशक्यक्षयमित्यर्थः । 'क्षि क्षये' । किष्कुविष्कम्भम् । किष्कुर्हस्ते वितस्तौ च ' इत्यमरः । 'परिणाहस्तु विष्कम्भः' इति वैजयन्ती । जीवग्राहम्। 'समूलाकृतजीवेषु हन्कृञ्ग्रहः' (३।४।३६)
 
लघुदीपिका ।
 
अक्षय्यम् । 'क्षय्यजय्यौ शक्यार्थे' (६।१।८१) इति निपातनात् । अशक्यक्षयमित्यर्थः । 'क्षि क्षये' । 'न्यङ्गुले तु त्रिपेलूकम्' (?) । किष्कुः । 'किष्कुर्हस्ते वितस्तौ च', 'परिणाहस्तु विष्कम्भ:' इति वैजयन्ती । स्त्रैणं स्त्रीसमूहः । 'स्त्रीपुंसाभ्यां नञ्स्नञौ भव-
 
[^१]G. अङ्गनभित्तौ