This page has not been fully proofread.

१८८
 
दशकुमारचरितम् ।
 
[ चतुर्थ:
 
नाप्यक्षय्यम्' इति । स तथोक्त्वा निजवासगृहस्य व्यङ्गुलेभित्ता-
वर्धपादं किष्कुविष्कम्भमुद्धृत्य तेनैव द्वारेण स्थानमिदमस्मानवी-
विशत् । इह च नो वसन्तीनां द्वादशसमाः समत्ययुः । इयं च
वत्सा तरुणीभूता । न चाद्यापि स्मरति राजा । काममियं पिता-
महेन दर्पसाराय संकल्पिता । त्वदम्बया कान्तिमया चेयं गर्भ-
स्थैव द्यूतजिता स्वमात्रा तवैव जायात्वेन समकल्प्यत । तदत्र
प्राप्तरूपं चिन्त्यतां कुमारेणैव' इति । तां पुनरवोचम् - 'अद्यैव
राजगृहे किमपि कार्य साधयित्वा प्रतिनिवृत्तो युष्मासु यथार्ह
प्रति इति । तेनैव दीपदर्शितबिलपथेन गत्वा स्थितेऽर्धरात्रे
तदर्धपाद प्रत्युद्धृत्य वासगृहं प्रविष्टो विश्रब्धसुप्तं सिंहघोषं
जीवग्राहमग्रहीषम् । आकृष्य च तमहिमिवाहिशत्रुः स्फुरन्तममुनैव
भित्तिरन्ध्रपथेन स्त्रैणसंनिधिमनैषम् । आनीय च स्वभवनमायस-
पदचन्द्रिका ।
 
प्रज्ञा' इति कोशः । प्रचुरपरिबर्हया प्रचुरपरिवारया । 'परिबर्ह तु राजार्हवस्तुन्यपि
परिच्छदे' इति विश्वः । संवर्ध्यताम् । अस्तीति । भोग्यं वस्तु । भोगार्हमित्यर्थः ।
अक्षय्यमशक्यक्षयम् । 'क्षय्यजय्यौ शक्यार्थे' (६।१।८१ ) इति निपातनात् । 'क्षि
क्षये' । द्यङ्गुलभित्तावङ्गुलद्वयपरिमाणभित्तौ । अर्धपादं प्रस्तरपिधानम् । किष्कुविष्कम्भं
हस्तपरिणाहम् । वितस्तिपरिणाहं वा । 'किकुर्हस्ते वितस्तौ च ' इत्यमरः । 'परि
णाहस्तु विष्कम्भः' इति वैजयन्ती । अस्मान्मत्प्रभृतिकन्याजनान् । अवीविशत् ।
प्रवेश कारयति स्मेत्यर्थः । समत्ययुरतिक्रान्ताः । जायावेन स्त्रीलेन । प्राप्तरूपं
कर्तव्यरूपम् । प्रतिनिवृत्तः परावृत्यागतः । युष्मासु भवतीषु । यथाई यथा-
योग्यम् । प्रतिपत्स्ये वर्तिष्ये । बिलपथेन छिद्रमार्गेण । जीवग्राहं जीवं गृही-
खेति तथा । णमुल् । अहिमिव सर्पमिव । अहिशत्रुर्गरुडः । अथवाहिमिव वृत्रा-
सुरमिव । अहिशत्रुरिन्द्रः । स्त्रैणं स्त्रीणां समूहस्तथा । 'स्त्रीपुंसाभ्यां नत्रजौ
 
भूषणा ।
 
अक्षय्यम् । 'क्षय्यजय्यौ शक्यार्थे (६।१९८१) इति निपातनात् । अशक्यक्षयमित्यर्थः ।
'क्षि क्षये' । किष्कुविष्कम्भम् । किकुर्हस्ते वितस्तौ च ' इत्यमरः । 'परिणाहस्तु
विष्कम्भः' इति वैजयन्ती । जीवाहम्। 'समूलाकृतजीवेषु हन्प्रहः' (३।४।३६)
लघुदीपिका ।
 
अक्षय्यम् । 'क्षय्यजय्यौ शक्यार्थे' (६॥१॥८१) इति निपातनात् । अशक्यक्षयमित्यर्थः ।
'क्षि क्षये' । 'न्यङ्गुले तु त्रिपेलकम्' (?) । किष्कुः । 'किकुर्हस्ते वितस्तौ च', 'परिणा-
हस्तु विनम्मः' इति वैजयन्ती । स्त्रैणं स्त्रीसमूहः । 'स्त्रीपुंसाभ्यां नञ्ञ्जञौ भव-
पाठा०-१ अङ्गनभित्तौ