This page has not been fully proofread.

दशकुमारचरितम् । [ पूर्वपीठिकायां
 
अत्यागमम् । मानी मानसारः स्वसैनिकायुष्मत्तान्तराये संपराये
भवतः पराजयमनुभूय वैलक्ष्यलक्ष्यहृदयो वीतदयो महाकालनि-
वासिनं कालीविलासिनमनश्वरं महेश्वरं समाराध्य तपःप्रभाव-
संतुष्टादस्मादेक॑वीरारातघ्नीं भयदां गदां लब्ध्वात्मानमप्रतिभटं मन्य-
मानो महाभिमानो भवन्तमभियोक्कुमुथुङ्क्ते । ततः परं देव एव
प्रमाणम्' इति तदालोच्य निश्चिततत्कृत्यैरमायै राजा विज्ञा-
पितोऽभूत् – 'देव, निरुपायेन देवसहायेन योद्धुमरातिरायाति ।
तस्मादस्माकं युद्धं सांप्रतमसांप्रतम् । सहसा दुर्गसंश्रयः कार्य: '
इति । तैर्बहुधा विज्ञापितोऽप्यखर्वेण गर्वेण विराजमानो राजा
तद्वाक्यमकृत्यमित्यनादृत्य प्रतियोद्धुमना बभूव । शितिकण्ठद-
चशक्तिसारो मानसारो योद्धुमनसामग्रीभूय सामग्रीसमेतोऽक्लेशं
मगधदेशं प्रविवेश । तदा तदाकर्ण्य मत्रिणो भूमहेन्द्रं मगधेन्द्रं
उदन्तजातमखिलां प्रवृत्तिम् । विदित्वा ज्ञात्वा । मानीति । ताच्छील्ये णिनिः
स्वसैनिका निजभटास्तेषामायुष्मत्ता जीवितमर्यादा तस्या अन्तरायो विघ्नस्तस्मिन् ।
संपराये युद्धे । 'संपरायः समीकं सांपरायिकम्' इति हैमः । भवतो देवात् । वैल-
क्ष्येण दैन्येन लक्ष्यमाकान्तं हृदयं यस्य सः । वीता नष्टा दया यस्य । महा-
काले निवासोऽस्त्यस्य तस्य । कालीविलासिनं कालीपतिम् । अनश्वरं नाशर-
हितम् । महांश्चासावीश्वरश्च महेश्वरस्तम् । समाराध्य सम्यगाराध्य । तपसस्तदा-
चरितस्य प्रभावः सामर्थ्यं तेन संतुष्टात्प्रीतात् । अस्मान्महेश्वरात् । एकवीरश्चा-
सावरातिश्च तं हन्तीति । भयदां भयदात्रीम् । गदामायुधविशेषम् । अप्रतिभटं
न विद्यते प्रतिभटो यस्य तम् । महानभिमानो यस्येति बहुव्रीहिः । अभि-
योक्तुमभिषेणयितुम् । उद्युत उद्युक्तो भवति । 'युजिर् योगे' । देव एव
प्रमाणम् । किंकर्तव्यतानिर्णेतेत्यर्थः । निश्चितं निर्णीतं तत्कृत्यमरातिकृत्यं, तत्कालो-
चितं कृत्यं, राजकृत्यं वा यैस्तैः । अमात्यैर्मन्त्रिभिः । निरुपायेन नास्त्युपायः प्रतीकारो
यस्य तेन । देवसहायेन । दैवसामग्र्येति यावत् । अरातिः परः । 'परारातिप्र-
त्यर्थि - ' इत्यमरः । सांप्रतमधुना । असांप्रतमयुक्तम् । 'युक्ते द्वे सांप्रतं स्थाने'
इत्यमरः । अखर्वो बहुः । न खर्वोऽखर्वः । 'खर्वो ह्रस्वश्च वामनः', 'न्यङ्नीच-
खर्वहखाः स्युः' इति चामरः । विराजमानः शोभमानः । 'राजू दीप्तौ' । अकृत्यं
कर्तुमनुचितमिति । अनादृत्यानादरं कृत्वा । शितिकण्ठः शिवस्तेन दत्ता या शक्तिः
प्रहरणविशेषः स एव सारो बलं यस्य सः । योद्धुमनसां युद्धकामानामग्रीभूय पुरो
भूत्वा । 'तुं काममनसोरपि' इत्यनुवारलोपः । सामग्र्या समेतो युक्तः । अक्लेशमिति
क्रियाविशेषणम्' । 'तत् आकर्ण्य' इति च्छेदः । भुवि पृथिव्यां महेन्द्रस्तम् । कथं-
पाठा०-१ 'एव वीरारातिनीम्'. २ 'दैवसहायेन'.
 

 
-