2023-09-03 13:55:57 by Lakshmainarayana achar

This page has been fully proofread twice.

योपसरन्निहान्तरे वो दृष्टवान् । कथयत काः स्थ यूयम् । कथ-
मिह निवसथ' [^१]इति प्राब्रवम् । सोदञ्जलिरुदीरितवती– 'भर्तृ-
दारक, भाग्यवत्यो वयम्, यास्त्वामेभिरेव चक्षुर्भिरनघमद्राक्ष्म ।
श्रूयताम् । यस्तव मातामहश्चण्डसिंहः, तेनास्यां देव्यां लीलावत्यां
चण्डघोष: कान्तिमतीत्यपत्यद्वयमुदपादि । चण्डघोषस्तु युवरा-
जोऽत्यासङ्गादङ्गनासु राजयक्ष्मणा [^२]सुरक्षयमगादन्तर्वत्न्यां देव्यामाचारवत्याम् । अमुया चेयं मणिकर्णिका नाम कन्या प्रसूता ।अथ प्रसववेदनया मुक्तजीविताचारवती पत्युरन्तिकमगमत् । अथ देवश्चण्डसिंहो मामाहूयोपह्वरे समाज्ञापयत् – 'ऋद्धिमति, कन्यकेयं कल्याणलक्षणा । तामिमां मालवेन्द्रनन्दनाय दर्पसाराय
विधिवद्वर्धयित्वा दित्सामि । बिभेमि च कान्तिमतीवृत्तान्तादारभ्य
कन्यकानां प्रकाशावस्थापनात् । अत इयमरातिव्यसनाय कारिते
महति भूमिगृहे कृत्रिमशैलगर्भोत्कीर्णनानामण्डपप्रेक्षागृहे प्रचुर-
परिबर्हया भवत्या संवर्ध्यताम् । अस्त्यत्र भोग्यवस्तु [^३]वर्षशते-
 
पदचन्द्रिका ।
 
'अर्थोऽभिधेयरैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । सुरङ्गया भूम्यन्तर्मार्गेणोपसरन् प्राब्रवमुक्तवान् । सा वृद्धा । उदञ्जलिरू- र्ध्वीकृताञ्जलिः । उदीरितवत्युक्तवती । भर्तृदारक राजपुत्र । अनघं निष्पापम् । अद्राक्षम दृष्टवत्यः । अपत्यद्वयं बालकद्वयम् ।
उदपाद्युत्पादितवान् । 'चिण् ते पद : ' ( ३।१।६० ) इति कर्तरि चिण् । राजयक्ष्मा क्षयरोगः । सुरक्षयं देवगृहम् । 'क्षयो रोगान्तरे वेश्मकल्पान्तापचयेषु च' इति विश्वः । अन्तर्वत्न्यां गर्भिण्याम् । अमुयाऽनया । अथेति । प्रसववेदनया प्रसवदुःखेन । पत्युरन्तिकं भर्तृसंनिहितम् । अथेति । उपह्वरे रहसि । विधिवद्विध्युक्तमार्गेण । दित्सामि दातुमिच्छामि । वृत्तान्तो वार्ता । अरातिव्यसनाय ।
वैरिकृतदुःखायेत्यर्थः । कृत्रिमशैलः कृत्रिमपर्वतः । गर्भो मध्यं तत्रोत्कीर्णः । 'समावुत्कीर्णविन्यस्तौ' इति कोशः । प्रेक्षागृहं नृत्येक्षणगृहम् । 'प्रेक्षा नृत्येक्षणं
 
भूषणा ।
 
रैवस्तुप्रयोजननिवृत्तिषु' इत्यमरः । वो युष्मान् । उदपादि । 'चिण् ते पदः ( ३ । १।६० ) इति कर्तरि चिण् । 'चिणो लुक्' ( ६।४।१०४ ) इति प्रत्ययस्य लुक् । उत्कीर्णम् । 'समावुत्कीर्णविन्यासौ' । प्रेक्षागृहं नृत्येक्षणगृहम् । 'प्रेक्षा नृत्येक्षणं प्रज्ञा' ।
 
लघुदीपिका ।
 
प्रयोजननिवृत्तिषु' । उदपादि। 'चिण् ते पदः' (३।१।६०) इति कर्तरि चिण् । उत्कीर्णम् ( चिण्) । 'समावुत्कीर्णविन्यस्तौ' । प्रेक्षागृहं नृत्येक्षणगृहम् । 'प्रेक्षा नृत्येक्षणं प्रज्ञा'
 
[^१]G. 'इति । सोदञ्जलि:'.
[^२]G. 'असुक्षयम्'.
[^३]G. 'वर्षशतोपभोगेन',