2023-09-03 13:56:03 by Lakshmainarayana achar

This page has been fully proofread twice.

हिणीव देवी विश्वंभरा, हरगृहिणीवासुरविजयायावतीर्णा, पाताल-
मागता गृहिणीव भगवतः कुसुमधन्वनः, राजलक्ष्मीरिवानेक-
दुर्नृपदर्शनपरिहाराय महीविवरं प्रविष्टा, निष्टप्तकनकपुत्रिकेवा-
वदातकान्तिः कन्यका, चन्दनलतेव मलयमारुतेन, मद्दर्शनेनो-
दकम्पत । तथाभूते च तस्मिन्नङ्गनासमाजे कुसुमितेव काशयष्टिः,
पाण्डुशिरसिजा स्थविरा काचिच्चरणयोर्मे निपत्य त्रासदीनमब्रूत-
'दीयतामभयदानमस्मा अनन्यशरणाय स्त्रीजनाय । किमसि देव-
कुमारो दनुजयुद्धतृष्णया रसातलं विविक्षुः । आज्ञापय कोऽसि,
कस्य हेतोरागतोऽसि ?" इति । सा तु मया प्रत्यवादि — 'सुदत्यः,
मा स्म भवत्यो भैषुः । अहमस्मि द्विजाति [^१]वृषात्कामपालाद्देव्यां
कान्तिमत्यामुत्पन्नोऽर्थपालो नाम । सत्यर्थे निजगृहान्नृपगृहं सुरङ्ग-
 
पदचन्द्रिका ।
 
कारम् । निह्नुवाना दूरीकर्तुं शक्ता । विग्रहिणीव शरीरधारिणीव । विश्वंभरा पृथ्वी । 'रसा विश्वंभरा स्थिरा' इत्यमरः । हरगृहिणीव दुर्गेव । कुसुमधन्वनः कामस्य । दुर्नुपदर्शनपरिहाराय दुष्टराजावलोकनपरिहाराय । निष्टप्ता संतापिता । कनकपुत्रिका सुवर्णपुत्तलिका । काशयष्टिः 'सरस' इति प्रसिद्धा । पाण्डुशिरसिजा श्वेतकेशा । स्थविरा वृद्धा । त्रासदीनं भयदीनम् । अनन्यशरणाय । त्वदेकशरणायेत्यर्थः । देवकुमारो देवपुत्रः । दनुजा दैत्याः । 'असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः' इत्यमरः । विविक्षुः प्रवेष्टुमिच्छुः । कस्य हेतोः । किमर्थमित्यर्थः । सा स्थविरा । सुदत्य इति सर्वाभिप्रायेण संबोधनम् । द्विजातिवृषात् ब्राह्मणश्रेष्ठात् । 'वृषले मूषिके श्रेष्ठे सुकृते वृषभे वृषः' इति केशवः । सत्यर्थे । कार्यवस्तुनि सतीत्यर्थः ।
 
भूषणा ।
 
बाहुल्ये तुल्यानशनमृत्युषु' इति वैजयन्ती । बहुलं प्रयुक्तवानित्यर्थः । स्वोदसितं स्वगृहम् । 'गृहं गेहोदवसितम्' इत्यमरः । निर्धुनानातितरां निरस्यन्ती । अङ्गनासमाजेऽङ्गनासमूहे । 'पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम्' इत्यमरः । कस्य हेतोः । 'सर्वनाम्नस्तृतीया च' (२।३।२७) षष्ठी । द्विजातिवृषभात् द्विजश्रेष्ठात् । 'वृषले मूषके श्रेष्ठे सुकृते वृषभे वृषः' इति । सत्यर्थे कार्यवस्तुनि सति । 'अर्थोऽभिधेय-
 
लघुदीपिका ।
 
बहुलं प्रयुक्तवानित्यर्थः । स्वोदवसितं स्वगृहम् । 'गृहं गेहोदवसितम्' । निर्धुनाना नितरां निरस्यन्ती ।अङ्गनासमाजेऽङ्गनासमूहे । समाजः समूहविशेषः । 'पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम्' द्विजातिवृषान्द्विजातिश्रेष्ठान् । 'वृषले मूषके श्रेष्ठे सुकृते वृषभे वृषः' । सत्यर्थे कार्यवस्तुनि सतीत्यर्थः । 'सत्यर्थे कार्यवस्तुनि' । 'अर्थोऽभिधेयरैवस्तु-
 
[^१]G. 'वृषभात्'.