2023-07-06 16:05:10 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१८६
 
दशकुमारचरितम् ।
 
[ चतुर्थ:
हिणीव देवी विश्वंभरा, हरगृहिणीवासुरविजयायावतीर्णांणा, पाताल-

मागता गृहिणीव भगवतः कुसुमधन्वनः, राजलक्ष्मीरिवानेक-

दुर्नृपदर्शनपरिहाराय महीविवरं प्रविष्टा, निष्टप्तकनकपुत्रिकेवा-

वदातकान्तिः कन्यका, चन्दनलतेव मलयमारुतेन, मद्दर्शनेनो-

दकम्पत । तथाभूते च तस्मिन्नङ्गनासमाजे कुसुमितेव काशयष्टिः,

पाण्डुशिरसिजा स्थविरा काचिच्चरणयोर्मे निपत्य त्रासदीनमब्रूत-

'दीयतामभयदानमस्मा अनन्यशरणाय स्त्रीजनाय । किमसि देव-

कुमारो दनुजयुद्धतृष्णया रसातलं विविक्षुः । आज्ञापय कोऽसि,

कस्य हेतोरागतोऽसि ?" इति । सा तु मया प्रत्यवादि — 'सुदत्यः,

मा स्म भवत्यो भैषुः । अहमस्मि द्विजाति [^१]वृषात्कामपालाद्देव्यां

कान्तिम त्यामुत्पन्नोऽर्थपालो नाम । सत्यर्थे निजगृहान्नृपगृहं सुरङ्ग-

 
पदचन्द्रिका ।
 

 
कारम् । निडुह्नुवाना दूरीकर्तुं शक्ता । विग्रहिणीव शरीरधारिणीव । विश्वंभरा पृथ्वी ।
'रसा विश्वंभरा स्थिरा' इत्यमरः । हरगृहिणीव दुर्गेव कुसुमधन्वनः कामस्य ।
दुर्नुपदर्शनपरिहाराय दुष्टराजावलोकनपरिहाराय । निष्टप्ता संतापिता । कनकपु
त्रिका सुवर्णपुत्तलिका । काशयष्टिः 'सरस' इति प्रसिद्धा । पाण्डुशिरसिजा श्वेत-
केशा । स्थविरा वृद्धा । त्रासदीनं भयदीनम् । अनन्यशरणाय । त्वदेकशरणाये-
त्यर्थः । देवकुमारो देवपुत्रः । दनुजा दैत्याः । 'असुरा दैत्यदैतेयदनुजेन्द्रारिदानवाः'
इत्यमरः । विविक्षुः प्रवेष्टुमिच्छुः । कस्य हेतोः । किमर्थमित्यर्थः । सा स्थविरा ।
सुदत्य इति सर्वाभिप्रायेण संबोधनम् । द्विजातिवृषात् ब्राह्मणश्रेष्ठात् । 'वृषले मूषिके
श्रेष्ठे सुकृते वृषभे वृषः' इति केशवः । सत्यर्थे । कार्यवस्तुनि सतीत्यर्थः ।
 

 
भूषणा ।
 

 
बाहुल्ये तुल्यानशनमृत्युषु' इति वैजयन्ती । बहुलं प्रयुक्तवानित्यर्थः । स्खोवो-
सितं स्वगृहम् । 'गृहं गेहोदवसितम्' इत्यमरः । निर्धुनानातितरां निरस्यन्ती ।
अङ्गनासमाजेऽङ्गनासमूहे । 'पशूनां समजोऽन्येषां समाजोऽथ सधर्मिणाम्' इत्यमरः ।
कस्य हेतोः । 'सर्वनाम्नस्तृतीया च' (२।३।२७) षष्ठी । द्विजातिवृषभात् द्विजश्रेष्ठात् ।
'वृषले मूषके श्रेष्ठे सुकृते वृमेभे वृषः' इति । सत्यर्थे कार्यवस्तुनि सति । 'अर्थोऽभिधेय-

 
लघुदीपिका ।
 

 
बहुलं प्रयुक्तवानित्यर्थः । खोस्वोदवसितं खगृहम् । 'गृहं गेहोदवसितम्' । निर्धुनाना नितरां
निरस्यन्ती । अङ्गनासमाजेऽङ्गनासमूहे । समाजः समूहविशेषः । 'पशूनां समजोऽन्येषां
समाजोऽथ सधर्मिणाम्' द्विजातिवृषान्द्विजातिश्रेष्ठान् । 'वृषले मूषके श्रेष्ठे सुकृते वृषमे
भे वृषः' । सत्यर्थे कार्यवस्तुनि सतीत्यर्थः । 'सत्यर्थे कार्यवस्तुनि' । 'अर्थोऽभिधेयरैवस्तु-
पाठा०-

 
[^
]G. 'वृषभात्'.