2023-09-03 13:56:10 by Lakshmainarayana achar

This page has been fully proofread twice.

अतोऽत्रैव कतिपयान्यहानि स्थित्वा बाह्याभ्यन्तरङ्गान्कोपानुत्पाद-
यिष्यामः । कुपितांश्च संगृह्य प्रोत्साह्यास्य प्रकृत्यमित्रानुत्थाप्य
सहजांश्च द्विषः, दुर्दान्तमेनमुच्छेत्स्यामः' इति । 'को दोषः, तथास्तु' इति तातस्य मतमन्वमंसि ।
तथास्मासु प्रतिविधाय तिष्ठत्सु राजापि विज्ञापितोदन्तो जातानुतापः पारग्रामिकान्प्रयोगान्प्रायः प्रायुङ्क्त । ते चास्माभिः प्रत्यहमहन्यन्त । अस्मिन्नेवावकाशे पूर्णभद्रमुखाच्च राज्ञः शय्यास्थानमवगम्य तदैव स्वोदवसितभित्तिकोणादारभ्योरगास्येन सुरङ्गामकार्षम् । गता च सा भूमिस्वर्गकल्पमनल्पकन्यकाजनं कमप्युद्देशम् । अव्यथिष्ट च दृष्ट्वैव स मां नारीजनः । तत्र काचिदिन्दुकलेव स्वलावण्येन रसातलान्धकारं [^१]निह्नुवाना, विप्र-
 
पदचन्द्रिका ।
 
दुःखम् । सुभटानां वीराणाम् । सुहृदः संबन्धिनः । पुत्राः सुताः । दाराः स्त्रियः, "तैः सह वर्तमानम् ।बाह्याभ्यन्तरङ्गान्बहिरङ्गानन्तरङ्गान् । कुपितान्कोपं प्राप्तान्
संगृह्याङ्गीकृत्य । प्रोत्साह्य प्रोत्साहवतो विधाय । दुर्दान्तं दुःखेन दमनीयम् । अन्वमंस्यनुमोदितवान् ॥
तथा प्रतिविधाय प्रतिविधानं कृत्वा । राजा सिंहघोषः । उदन्तो
वार्ता । अनुतापः पश्चात्तापः । पारग्रामिकान्परग्रामे भवान् । प्रयोगान् कटकप्रेषणादिरूपांस्तथा । प्रायो बहुलान् । 'प्रायो वयसि बाहुल्ये' इति वैजयन्ती । प्रायुङ्क्त प्रयुक्तवान् । ते परकटकस्थाः । अवकाशेऽवसरे । स्वोदवसितं स्वगृहम् । "गृहं गेहोदवसितम्' इत्यमरः । उरगास्येन फणिमुखाकारायसखननसाधनेन ।
सुरङ्गां खनिम् । सा सुरङ्गा । भूमिस्वर्गकल्पं भूमिस्वर्गतुल्यम् । उद्देशं प्रदेशम् । अव्यथिष्ट । व्यथां प्रापेत्यर्थः । इन्दुकलेव चन्द्रलेखेव । रसातलान्धकारं पातालान्ध-
 
भूषणा ।
 
इति सूत्रे 'समानान्ययोश्चेति वक्तव्यम्' इति कञ् । 'आ सर्वनाम्नः' ।
( ६।३।९१ ) इत्यात्वम् । दुर्दान्तं दुःखेन दमनीयम् । विज्ञापितोदन्तो
विज्ञापितवृत्तान्तः । 'वार्ता प्रवृत्तिर्वृत्तान्तः' इत्यमरः । पारग्रामिकम्
मिताक्षरायां विज्ञानेश्वरः - 'उपरुन्ध्यारिमासीत राष्ट्रं चास्योपपीडयेत् । दूषयेच्चास्य सततं यवसान्नोदकेन्धनम्' इति । प्रायः प्रायुङ्क्त । 'प्रायो वयसि
 
लघुदीपिका ।
 
'समानान्ययोश्चेति वक्तव्यम्' इति दृशः कन् । 'आ सर्वनाम : '( ६ ।३।९१ ) इत्यात्वम् । दुर्दान्तं दुःखेन दमनीयम् । 'क्वचित्क्वचिच्च कृतार्थे निष्ठा प्रथम इष्यते' इति वचनेन । प्रायः प्रायुङ्क्त । 'प्रायो वयसि बाहुल्ये तुल्यानशनमृत्युषु' इति वैजयन्ती ।
 
[^१]G. 'निर्धुनाना'.