2023-05-18 02:10:40 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् ।
अतोऽत्रैव कतिपयान्यहानि स्थित्वा बाह्याभ्यन्तरङ्गान्कोपानुत्पाद-
यिष्यामः । कुपितांश्च संगृह्य प्रोत्साह्यास्य प्रकृत्यमित्रानुत्थाप्य
सहजांश्च द्विषः, दुर्दान्तमेनमुच्छेत्स्यामः' इति । 'को दोषः,
तथास्तु' इति तातस्य मतमन्वमंसि ।
१८५
तथास्मासु प्रतिविधाय तिष्ठत्सु राजापि विज्ञापितोदन्तो
जातानुतापः पारग्रामिकान्प्रयोगान्प्रायः प्रायुङ्क । ते चास्माभिः
प्रत्यहमहन्यन्त । अस्मिन्नेवावकाशे पूर्णभद्रमुखाच्च राज्ञः शय्या-
स्थानमवगम्य तदैव स्खोदवसितभित्तिकोणादारभ्योरगास्येन
सुरङ्गामकार्षम् । गता च सा भूमिस्वर्गकल्पमनल्पकन्यकाजनं
कमप्युद्देशम् । अव्यथिष्ट च दृष्दैव स मां नारीजनः । तत्र
काचिदिन्दुकलेव स्वलावण्येन रसातलान्धकारं निहुवाना, विप्र-
पदचन्द्रिका ।
दुःखम् । सुभटानां वीराणाम् । सुहृदः संबन्धिनः । पुत्राः सुताः । दाराः स्त्रियः,
"तैः सह वर्तमानम् । बाह्याभ्यन्तरङ्गान्बहिरङ्गानन्तरङ्गान् । कुपितान्कोपं प्राप्तान्
संगृह्याजीकृत्य । प्रोत्साह्य प्रोत्साहवतो विधाय । दुर्दान्तं दुःखेन दमनीयम् ।
अन्वम॑स्यनुमोदितवान् ॥
तथा प्रतिविधाय प्रतिविधानं कृत्वा । राजा सिंहघोषः । उदन्तो
वार्ता । अनुतापः पश्चात्तापः । पारग्रामिकान्परग्रामे भवान् । प्रयोगान्
कटकप्रेषणादिरूपांस्तथा । प्रायो बहुलान् । 'प्रायो वयसि बाहुल्ये' इति वैजयन्ती ।
प्रायुत प्रयुक्तवान् । ते परकटकस्थाः । अवकाशेऽवसरे । खोदवसितं स्वगृहम् ।
"गृहं गेहोदवसितम्' इत्यमरः । उरगास्येन फणिमुखाकारायसखननसाधनेन ।
सुरङ्गां खनिम् । सा सुरज्ञा । भूमिस्वर्गकल्पं भूमिस्वर्गतुल्यम् । उद्देशं प्रदेशम् ।
अब्यथिष्ट । व्यथां प्रापेत्यर्थः । इन्दुकलेव चन्द्रलेखेव । रसातलान्धकारं पातालान्ध-
भूषणा ।
इति सूत्रे 'समानान्ययोश्चेति वक्तव्यम्' इति कञ् । 'आ सर्वनाम्नः' ।
( ६३१९१ ) इत्यात्वम् । दुर्दान्तं दुःखेन दमनीयम् । विज्ञापितोदन्तो
विज्ञापितवृत्तान्तः । 'वार्ता प्रवृत्तिर्वृत्तान्तः' इत्यमरः । पारग्रामिकम्
मिताक्षरायां विज्ञानेश्वरः - 'उपरुन्ध्यारिमासीत राष्ट्रं चास्योपपीडयेत् ।
दूषयेच्चास्य सततं यवसान्नोदकेन्धनम् इति । प्रायः प्रायुत । 'प्रायो वयसि
लघुदीपिका ।
'समानान्ययोश्चेति वक्तव्यम्' इति दृशः कन् । 'आ सर्वनाम : ' ( ६ ।३।९१ )
इत्यात्वम् । दुर्दान्तं दुःखेन दमनीयम् । 'क्कचित्कचिच कृतार्थे निष्ठा प्रथम इष्यते' इति
वचनेन । प्रायः प्रायुङ्क । 'प्रायो वयसि बाहुल्ये तुल्यानशनमृत्युषु' इति वैजयन्ती ।
पाठा०-१ 'निर्धुनाना'.