2023-09-03 13:56:17 by Lakshmainarayana achar

This page has been fully proofread twice.

सैव वा सदृशकारिणी । न हि तादृशाद्भाग्यराशेर्विना [^१]मादृशो
जनोऽल्पपुण्यस्तवार्हति कलप्रलापामृतानि कर्णाभ्यां पातुम् । एहि
परिष्वजस्व' इति भूयोभूयः शिरसि जिघ्रन्त्यङ्कमारोपयन्ती तारा-
वलीं गर्हयन्त्यालिङ्गयन्त्यश्रुभिरभिषिञ्चन्ती चोत्कम्पिताङ्गयष्टि-
[^२]रन्यादृशीव क्षणमजनिष्ट । जनयितापि मे नरकादिव स्वर्गम्,
तादृशाव्यसनात्तथाभूतमभ्युदयमारूढः पूर्णभद्रेण विस्तरेण यथा-
वृत्तान्तमावेदितो भगवतो मघवतोऽपि भाग्यवन्तमात्मनमजीगणत् । [^३]मनागिव च मत्संबन्धमाख्याय हर्षविस्मितात्मनोः
पित्रोरकथयम्- 'आज्ञापयतं काद्य नः प्रतिपत्तिः' इति । पिता
मे प्राब्रवीत् – 'वत्स, गृहमेवेदमस्मदीयमतिविशालप्राकारवलय-
मक्ष [^४]य्यायुधस्थानम् । अलङ्घ्यतमा च गुप्तिः । उपकृताश्च मयाऽतिबहवः सन्ति सामन्ताः । प्रकृतयश्च भूयस्यो न मे व्यसनम-
नुरुध्यन्ते । सुभटानां चानेकसहस्रमस्त्येव ससुहृत्पुत्रदारम् ।
 
पदचन्द्रिका ।
 
वली । सदृशकारिणी युक्तकारिणी । कलो मञ्जुलो यः प्रलापः शिशुशब्दः स एवामृतम् । गर्हयन्ती निन्दती । उत्कम्पिताङ्गयष्टिर्जातोत्कम्पशरीरा । अन्यादृशीवान्यसमा । 'त्यदादिषु दृशोऽनालोचने कञ्च' (३।२।६०) इति सूत्रे 'समानान्ययोश्चेति वक्तव्यम्' (वा. २०२९) इति दृशेः कञ्। 'आ सर्वनाम्नः' (६।३।९१) इत्यात्वम् । जनयिता पिता ।तादृशाद्व्यसनान्नेत्रोत्पाटनादिरूपाद्दु:खात् । तथाभूतं पुनर्जीवन-
पुत्रमिलनरूपम् । मघवत इन्द्रादपि भाग्यवन्तमदृष्टवन्तम् । अजीगणत् । 'गण संख्याने' । संख्यातवानित्यर्थः । मनागल्पम् । मत्संबन्धं स्वसंबन्धम् । प्रतिपत्तिः कर्तव्यता ।अतिविशालप्राकारवलयमतिविस्तीर्णवरणभित्तिमण्डलम् । अक्षय्यायुधस्थानमपरिमितायुधगृहम् । अलङ्घ्यतमा अतिशयेन लङ्घितुमशक्या। गुप्तिर्गोपनम् । 'गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणे यमे' इति विश्वः । उपकृता कृतोपकाराः । सामन्ता अधीश्वराः । 'सामन्तः स्यादधीश्वरः' । इत्यमरः । प्रकृतयः प्रजाः । व्यसनं
 
भूषणा ।
 
इति कर्मत्वम् । अन्यादृश्यन्यसमा। 'त्यदादिषु दृशोऽनालोचने कञ्च' ( ३।२।६० )
 
लघुदीपिका ।
 
अन्यादृशी चान्यसमा । 'त्यदादिषु दृशोऽनालोचने कञ्च' ( ३।२।६० ) इति सूत्रे
 
[^१]G. 'अस्मादृशः'.
[^२]G. 'अन्यादृश्यैव'.
[^३]G. 'मनागेव'.
[^४]G. 'आयुधग्रामम्'.