2023-07-06 14:56:22 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१८४
 
दशकुमारचरितम् ।
 
[ चतुर्थः
 

 
सैव वा सदृशकारिणी । न हि तादृशाद्भाग्यराशेविंर्विना [^१]मादृशो

जनोऽल्पपुण्यस्तवार्हति कलप्रलापामृतानि कर्णाभ्यां पातुम् । एहि

परिष्वजस्व' इति भूयोभूयः शिरसि जिम्घ्रन्त्यङ्कमारोपयन्ती तारा-

वलीं गर्हयन्त्यालिङ्गयन्त्यश्रुभिरभिषिञ्चन्ती चोत्कम्पिताङ्गयष्टि-
रैन्याह

[^२]रन्यादृ
शीव क्षणमजनिष्ट । जनयितापि मे नरकादिव स्वर्गम्,

तादृशाव्यसनात्तथाभूतमभ्युदयमारूढः पूर्णभद्रेण विस्तरेण यथा-

वृत्तान्तमावेदितो भगवतो मघवतोऽपि
भाग्यवन्तमात्मनमजीगणत् । मँ[^३]मनागिव च मत्संबन्धमाख्याय हर्षविस्मितात्मनोः

पित्रोरकथयम्- 'आज्ञापयतं काद्य नः प्रतिपत्तिः' इति । पिता

मे प्राब्रवीत् – 'वत्स, गृहमेवेदमस्मदीयमतिविशालप्राकारवलय-

मक्ष [^४]य्यायुधस्थानम् । अलङ्घ्यतमा च गुप्तिः । उपकृताञ्श्च मया-
तिबहवः सन्ति सामन्ताः । प्रकृतयश्च भूयस्यो न मे व्यसनम-

नुरुध्यन्ते । सुभटानां चानेकसहस्रमस्त्येव ससुहृत्पुत्रदारम् ।
 
भाग्यवन्तमात्मान-

 
पदचन्द्रिका ।
 
1
 
1
 

 
वली । सदृशकारिणी युक्तकारिणी । कलो मञ्जुलो यः प्रलापः शिशुशब्दः स एवा-
मृतम् । गर्हयन्ती निन्दती । उत्कम्पिताङ्गयष्टिर्जातोत्कम्पशरीरा । अन्यादृशी-
वान्यसमा । 'त्यदादिषु दृशोऽनालोचने कञ्च' (३।२।६०) इति सूत्रे 'समानान्ययोश्चेति
वक्तव्यम्' (वा. २०२९) इति दृशेः कञ्ज् । 'आ सर्वनाम्नः' (६।३।९१) इत्यात्वम् ।
जनयिता पिता । तादृशाद्व्यसनान्नेत्रोत्पाटनादिरूपाहुःद्दु:खात् । तथाभूतं पुनर्जीवन-

पुत्रमिलनरूपम् । मघवत इन्द्रादपि भाग्यवन्तमदृष्टवन्तम् । अजीगणत् । 'गण
संख्याने' । संख्यातवानित्यर्थः । मनागल्पम् । मत्संबन्धं स्वसंबन्धम् । प्रतिपत्तिः
कर्तव्यता । अतिविशालप्राकारवलयमतिविस्तीर्णवरणमित्तिमण्डलम् । अक्षय्यायु-
स्थानमपरिमितायुधगृहम् । अलङ्घ्यतमा अतिशयेन लङ्किघितुमशक्या। गुप्तिर्गोपनम् ।
'गुप्तिः कारागृहे प्रोक्ता भूगर्ते रक्षणे यमेंमे' इति विश्वः । उपकृता कृतोपकाराः ।
सामन्ता अधीश्वराः । 'सामन्तः स्यादधीश्वरः' । इत्यमरः । प्रकृतयः प्रजाः । व्यसनं
 

 
भूषणा ।
 

 
इति कर्मत्वम् । अन्यादृश्यन्यसमा
 
। 'त्यदादिषु दृशोऽनालोचने कञ्च' ( ३६० )

 
लघुदीपिका ।
 

 
अन्यादृशी चान्यसमा । 'त्यदादिषु दृशोऽनालोचने कञ्च' ( ३६० ) इति सूत्रे
पाठा०-

 
[^
]G. 'अस्सामादृशः'.
[^
]G. 'अन्यादृश्यैव'.
[^
]G. 'मनागेव'.
[^
]G. 'आयुधप्ग्रामम्'.