2023-09-03 13:56:24 by Lakshmainarayana achar

This page has been fully proofread twice.

फलम् । अस्य तु पाणिग्राहकस्य गतिमननुप्रपद्यमाना भवत्कुलं
कलङ्कयेयम् । अतोऽनुमन्तुमर्हसि भर्त्रा सह चिताधिरोहणाय
माम्' इति । श्रुत्वा चैतत्प्रीतियुक्तः [^१]समादिक्षत्क्षितीश्वरः – 'क्रियतां' कुलोचितः संस्कारः । [^२]उत्सवोत्तरं च पश्चिमं विधिसंस्कारमनुभवतु मे भगिनीपतिः' इति । चण्डाले तु मत्प्रतिषिद्धसकलमन्त्रवादिप्रयासे संस्थिते 'कामपालोऽपि कालदष्ट एव' इति स्वभवनोपनयनममुष्य स्वमाहात्म्यप्रकाशनाय महीपतिरन्वमंस्त । आनीतश्च पिता मे विविक्तायां भूमौ दर्भशय्यामधिशाय्य स्थितोऽभूत् ।
अथ मदम्बा मरणमण्डनमनुष्ठाय सकरुणं सखीरामन्त्र्य,
मुहुरभिप्रणम्य भवनदेवता यत्ननिवारितपरिजनाक्रन्दिता पितुर्मे
शयनस्थानमेकाकिनी प्राविक्षत् । तत्र च पूर्वमेव पूर्णभद्रोप-
स्थापितेन च मया वैनतेयतां गतेन निर्विषीकृतं भर्तारमैक्षत ।
हृष्टतमा पत्युः पादयोः पर्यश्रुमुखी प्रणिपत्य पर्यश्रुमुखी प्रणिपत्य मां च मुहुर्मुहुः प्रस्तुतस्तनी परिष्वज्य सहर्षबाष्पगद्गदमगदत् – 'पुत्र, योऽसि जातमात्र: पापया मया परित्यक्तः, स किमर्थमेवं मामतिनिर्घृणामनुगृह्णासि । अथवैष निरपराध एव ते जनयिता । युक्तमस्य प्रत्यानयनमन्तकाननात् । क्रूरा खलु तारावली या त्वामुपलभ्यापि तत्त्वतः कुबेरादसमर्प्य मह्यमर्पितवती देव्यै वसुमत्यै,
 
पदचन्द्रिका ।
 
समादिक्षत् । आज्ञापयामासेत्यर्थः । मन्त्रवादिनां गारुडिकानाम् । संस्थिते मरणं प्राप्ते । कालदष्टः । मृत इति यावत् । अमुष्य कामपालस्य । स्वमाहात्म्यप्रकाशनाय स्वधार्मिकत्व- कीर्तिप्राकट्यार्थम् । अन्वमंस्तानुमोदितवान् । विविक्तायां विजनायाम् ॥
अथेति । मरणमण्डनं मरणकालोचितभूषणम् । तत्र विविक्तभूमौ । वैनतेयतांगरुडताम् । गतेन प्राप्तेन । प्रस्नुतस्तनी स्रवत्पयःस्तनी
। परिष्वज्यालिङ्ग्य । जात उत्पन्न एव जातमात्रः । निर्घृणां निष्कृपाम् । जनयितोत्पादकः । प्रत्यानयनं परावृत्यानयनम् । अन्तकाननात् यममुखात् । क्रूरा कठिना । सैव तारा-
 
भूषणा ।
 
दन्दशूको बिलेशयः' इत्यमरः। दर्भशय्यामधिशाय्य ।'अधिशीङ्स्थासां कर्म (१।४।४६)
 
[^१]G. 'प्रतिसमदिक्षत्',
[^२]G.' 'उत्सवान्तरम्'.