2023-09-03 13:56:31 by Lakshmainarayana achar

This page has been fully proofread twice.

यदि स्यादन्यायवृत्तिस्तमप्येवमेव यथार्हेण दण्डेन योजयिष्यति
देवः' इति । श्रुत्वैतद्बद्धकलकले महाजने पितुरङ्गे प्रदीप्तशिरस-
माशीविषं न्यक्षिपम् । अहं च भीतो नामावप्लुत्य तत्रैव [^१]जनादनुलीन: क्रुद्धव्यालदष्टस्य तातस्य विहितजीवरक्षो विषं क्षणादस्तम्भयम् । अपतच्चैष भूमौ मृतकल्पः । प्रालपं च 'सत्यमिदं राजावमानिनं दैवो दण्ड एव स्पृशतीति । यदयमक्षिभ्यां विनावनिपेन चिकीर्षितः, प्राणैरेव वियोजितो विधिना' इति ।
मदुक्तं च केचिदन्वमन्यन्त, अपरे पुनर्निनिन्दुः । दुर्वीकरस्तु तमपि
चण्डालं दृष्ट्वा रूढत्रासद्रुतलोकदत्तमार्गः प्राद्रवत् ।
अथ मदम्बा पूर्णभद्रबोधितार्था तादृशेऽपि व्यसने नातिवि-
ह्वला [^२]कुलपरिजनानुयाता पद्भ्यामेव धीरमागत्य मत्पितुरुत्तमाङ्गमुत्सङ्गेन धारयन्त्यासित्वा राज्ञे [^३]समादिशत् - 'एष मे पतिस्तवापकर्ता न वेति दैवमेव जानाति । न मेऽनयास्ति चिन्तया
 
पदचन्द्रिका ।
 
यवृत्तिरन्यायकर्ता । यथार्हेण यथायोग्येन । बद्धकलकले कृतकोलाहले । आशीविषं सर्पम् । भीतो नाम मिथ्यैव भयं प्राप्त इति । अवप्लुत्योड्डीय । जनादनुलीनो
लोकाद्गुप्तः । 'अन्तर्धौ येनादर्शनं-' (१।४।२८ ) इत्यपादानम् । अस्तम्भयं स्तम्भितवान् । एष तातः । प्रालपम् । अवदमित्यर्थः । दैवो दण्डः । देवानामयं दैवः । अवनिपेन राज्ञा । चिकीर्षितः कर्तुमिष्टः । वियोजितो वियुक्तः । निनिन्दुर्निन्दां चक्रुः । दर्वी फणा एव करः यस्य तथोक्तः सर्पः । दष्ट्वा दंशं कृत्वा । रूढो जातस्त्रासो भयं तेन द्रुतः पलायितो यो लोकस्तेन दत्तो मार्गो यस्येति स तथा ॥
अथेति । मदम्बा मन्माता । व्यसने दुःखे । नातिविह्वला नातिव्याकुला । धीरं निश्चलम् । उत्तमाङ्गं शिरः । उत्सङ्गेनाङ्केन । आसित्वा स्थित्वा । समादिशत् । आदिदेशेत्यर्थः । एष इति । अपकर्तापकारकः । अननुप्रपद्यमानाऽप्राप्तवती । कलङ्कयेयं कलङ्कितं करिष्यामि । अनुमन्तुमनुमोदितुम् ।
 
भूषणा ।
 
इत्यमरः । जनादुपलीनो जनादन्तर्हितः । जनैरनुपलक्षित इत्यर्थः। 'अन्तर्धी येनादर्शनमिच्छति' (१।४।२८ ) इत्यपादानत्वम् । दर्वीकरः सर्पः । 'दवींकरो दीर्घष्पृष्ठो
 
लघुदीपिका ।
 
लीनो जनादन्तर्हितः । जनैरनुपलक्षित इत्यर्थः । 'अन्तर्धौ येनादर्शनमिच्छति'( १।४।२८) इत्यपादानत्वम् । दर्वीकरः सर्पः । 'दर्वीकरस्तु भुजङ्गो दन्दशूको बिलेशयः'
 
[^१]G. 'जनानुलीनः', 'जनादुपलीनः',
[^२]G. 'अल्पपरिजना'.
[^३]G. 'समदिशत्'.