2023-05-18 02:10:40 by ambuda-bot
This page has not been fully proofread.
१८२
दशकुमारचरितम् ।
[ चतुर्थ:
यदि स्यादन्यायवृत्तिस्तमप्येवमेव यथार्हेण दण्डेन योजयिष्यति
देवः' इति । श्रुत्वैतद्वद्धकलकले महाजने पितुरङ्गे प्रदीप्तशिरस-
माशीविषं न्यक्षिपम् । अहं च भीतो नामावडत्य तत्रैव र्जनादनु-
लीन: क्रुद्धव्यालदष्टस्य तातस्य विहितजीवरक्षो विषं क्षणाद-
स्तम्भयम् । अपतञ्चैष भूमौ मृतकल्पः । प्रालपं च 'सत्यमिदं
राजावमानिनं दैवो दण्ड एव स्पृशतीति । यदद्यमक्षिभ्यां विना-
वनिपेन चिकीर्षितः, प्राणैरेव वियोजितो विधिना' इति ।
मदुक्तं च केचिद॒न्वमन्यन्त, अपरे पुनर्निनिन्दुः । दुर्वीकरस्तु तमपि
चण्डालं दृष्ट्वा रूढत्रासद्रुतलोकदत्तमार्गः प्राद्रवत् ।
अथ मदम्बा पूर्णभद्रबोधितार्था तादृशेऽपि व्यसने नातिवि-
ह्वला कुलपरिजनानुयाता पयामेव धीरमागत्य मत्पितुरुत्तमाङ्ग-
मुत्सङ्गेन धारयन्त्यासित्वा राज्ञे समादिशत् - 'एष मे पतिस्त-
वापकर्ता न वेति दैवमेव जानाति । न मेऽनयास्ति चिन्तया
पदचन्द्रिका ।
यवृत्तिरन्यायकर्ता । यथार्हेण यथायोग्येन । बद्धकलकले कृतकोलाहले । आशी-
विषं सर्पम् । भीतो नाम मिथ्यैव भयं प्राप्त इति । अवडत्योड्डीय । जनादनुलीनो
लोकाद्रुतः । 'अन्तधौं येनादर्शनं-' (१९४१२८ ) इत्यपादानम् । अस्तम्भयं
स्तम्भितवान् । एष तातः । प्रालपम् । अवदमित्यर्थः । दैवो दण्डः । देवानामयं
दैवः । अवनिपेन राज्ञा । चिकीर्षितः कर्तुमिष्टः । वियोजितो वियुक्तः । निनिन्दु-
र्निन्दां चक्रुः । दर्वी फणा एव करः यस्य तथोक्तः सर्पः । दवा दंश कृत्वा । रूढो
जातस्त्रासो भयं तेन द्रुतः पलायितो यो लोकस्तेन दत्तो मार्गो यस्येति स तथा ॥
अथेति । मदम्बा मन्माता । व्यसने दुःखे । नातिविह्वला नातिव्याकुला ।
धीरं निश्चलम् । उत्तमाङ्गं शिरः । उत्सङ्गेनाङ्केन । आसिला स्थित्वा ।
समादिशत् । आदिदेशेत्यर्थः । एष इति । अपकर्तापकारकः । अननुप्रपद्य-
मानाऽप्राप्तवती । कलङ्कयेयं कलङ्कितं करिष्यामि । अनुमन्तुमनुमोदितुम् ।
भूषणा ।
इत्यमरः । जनादुपलीनो जनादन्तर्हितः । जनैरनुपलक्षित इत्यर्थः ।' अन्तर्धी येना-
दर्शनमिच्छति' (१९४१२८ ) इत्यपादानत्वम् । दवकरः सर्पः । 'दवींकरो दीर्घष्पृष्ठो
लघुदीपिका ।
लीनो जनादन्तर्हितः । जनैरनुपलक्षित इत्यर्थः । 'अन्तर्धो येनादर्शनमिच्छति'
( १९४१२८) इत्यपादानत्वम् । दर्वीकरः सर्पः । 'दवकरस्तु भुजङ्गो दन्दशको बिलेशयः'
पाठा०-१ 'जनानुलीनः', 'जनादुपलीनः', २ 'अल्पपरिजना'.
३ 'समदिशत्'.