2023-09-03 13:56:38 by Lakshmainarayana achar

This page has been fully proofread twice.

यिष्ये । ततः पितरमुज्जीव्य तदभिरुचितेनाभ्युपायेन चेष्टिष्या-
महे' इति । स 'तथा' इति हृष्टतरस्तूर्णमगमत् । अहं तु घोषणा-
स्थाने चिञ्चावृक्षं [^१]घनतरविपुलशाखमारुह्य गूढतनुरतिष्ठम् ।
आरूढश्च लोको यथायथमुच्चैःस्थानानि । उच्चावचप्रलापाः प्रस्तु-
ताः । तावन्मे पितरं तस्करमिव पश्चाद्बद्धभुजमुद्धुरध्वनिमहाज-
नानुयातमानीय मदभ्याश एव स्थापयित्वा मातङ्गस्त्रिरघोषयत्-
'एष मन्त्री कामपालो राज्यलोभाद्भर्तारं चण्डसिंहं युवराजं
चण्डघोषं च विषान्नेनोपांशु हत्वा पुनर्देवोऽपि सिंहघोषः पूर्ण -
यौवन इत्यमुष्मिन्पापमाचरिष्यन्विश्वासाद्रहस्यभूमौ पुनरमात्यं
शिवनागमाहूय स्थूणमङ्गारवर्षं च राजवधायोपजप्य तैः स्वामि-
भक्त्या विवृतगुह्यो राज्यकामुकस्यास्य ब्राह्मणस्यान्धतमसप्रवेशो
न्याय्य इति प्राड्विवाकवाक्यादक्ष्युद्धरणाय नीयते । पुनरन्योऽपि
 
पदचन्द्रिका ।
 
हर्म्यादेः काञ्च्यां मध्येभबन्धने' इत्यमरः । तदभिरुचितेन पित्राभिमतेन । स पूर्णभद्रः । तूर्णं सत्वरम् । 'सत्वरं चपलं तूर्णमविलम्बितमाशु च' इत्यमरः । घोषणस्थाने डिण्डिमस्थले । चिञ्चावृक्षं तिन्तिणीवृक्षम् । 'तिन्तिणी चिञ्चाम्लिका' इत्यमरः । गूढतनुर्गुप्तशरीरः । उच्चावचप्रलापा उच्चनीचवचनानि । उद्धु रध्वनीति क्रियाविशेषणम्, महाजनविशेषणं वा । मदभ्याश एव मत्समीप एव । मातङ्गश्चण्डालः । त्रिस्त्रिवारम् । अघोषयत् । अवादयदित्यर्थः । भर्तारं स्वामिनम् । उपांशु रहसि । अमुष्मिन्सिंहघोषे । शिवनागं तन्नामानम् । स्थूणमङ्गारवर्षं चेति
द्वावप्यमात्यौ । उपजाय भेदं कृत्वा । 'उपजापः स्मृतो भेदः' इत्यमरः । तैर्मन्त्रिभिः । विवृतगुह्यः प्रकटीकृतमन्त्रः । प्राड्विवाको व्यवहारनिर्णायकः । 'द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ' इत्यमरः । अक्ष्युद्धरणाय नेत्रोत्पाटनाय । अन्या-
 
भूषणा ।
 
प्रकोष्ठे हर्म्यादिः काञ्च्यां मध्येभबन्धने' इत्यमरः । तूर्णम् । 'सत्वरं चपलं तूर्णम्' इत्यमरः । चिञ्चाऽम्लिका । 'अम्लिका तिन्तिणी चिञ्चा' इति वैजयन्ती । उद्धुरध्वनिर्विशृङ्खलध्वनिः । 'उद्धुरं तु विशृङ्खलम्' । विवृतगुह्य आविष्कृतरहस्यः ।
प्राड्विवाको व्यवहारनिर्णायकः। 'द्रष्टरि व्यवहाराणां प्राड्वि- -वाकाक्षदर्शको'
 
लघुदीपिका ।
 
तिरस्करिणी' । बाह्यकक्षा । 'कक्षा प्रकोष्ठे हर्म्यादेः काञ्च्यां मध्येभबन्धने' । तूर्णम् । 'सत्वरं चपलं तूर्णमविलम्बितमाशु च' । चिञ्चा । 'अम्लिका तिन्तिणी चिञ्चा' इति वैजयन्ती । उद्धुरध्वनिः । 'उद्धुरं तु विशृङ्खलम्' । विवृतगुह्यः । प्राड्विवाको व्यवहारनिर्णायकः । द्रष्टरि व्यवहाराणां प्राड्विवाकाक्षदर्शकौ' । जनादुप-
 
[^१]G. 'लम्बघनतर'.
१६ द० कु०