2023-05-18 02:10:39 by ambuda-bot
This page has not been fully proofread.
उच्छ्वासः ] पदचन्द्रिका-भूषणा-लघुदीपिकासहितम् ।
१८१
यिष्ये । ततः पितरमुज्जीव्य तद्भिरुचितेनाभ्युपायेन चेष्टिष्या-
महे' इति । स 'तथा' इति हृष्टतरस्तूर्णमगमत् । अहं तु घोषणा-
स्थाने चित्रावृक्षं धंनतरविपुलशाखमारुह्य गूढतनुरतिष्ठम् ।
आरूढच लोको यथायथमुच्चैः स्थानानि । उच्चावचप्रलापाः प्रस्तु-
ताः । तावन्मे पितरं तस्करमिव पश्चाद्वद्धभुजमुद्धुरध्वनिमहाज-
नानुयातमानीय मदद्भ्याश एव स्थापयित्वा मातङ्गस्बिरघोषयत्-
'एष मन्त्री कामपालो राज्यलोभाद्भर्तारं चण्डसिंहं युवराजं
चण्डघोषं च विषान्नेनोपांशु हत्वा पुनर्देवोऽपि सिंहघोषः पूर्ण -
यौवन इत्यमुष्मिन्पापमाचरिष्यन्विश्वासाद्रहस्यभूमौ पुनरमात्यं
शिवनागमाहूय स्थूणमङ्गारवर्षं च राजवधायोपजप्य तैः स्वामि-
भक्त्या विवृतगुह्यो राज्यकामुकस्यास्य ब्राह्मणस्यान्धतमसप्रवेशो
न्याय्य इति प्राडिवाकवाक्यादक्ष्युद्धरणाय नीयते । पुनरन्योऽपि
पदचन्द्रिका ।
2
हर्म्यादेः काञ्चयां मध्येभबन्धने' इत्यमरः । तदभिरुचितेन पित्राभिमतेन । स
पूर्णभद्रः । तूर्ग सत्वरम् । 'सत्वरं चपलं तूर्णमविलम्बितमाञ्च च' इत्यमरः ।
घोषणस्थाने डिण्डिमस्थले । चिञ्चावृक्षं तिन्तिणीवृक्षम् । 'तिन्तिणी चिञ्चाम्लिका
इत्यमरः । गूढतनुर्गुप्तशरीरः । उच्चावचप्रलापा उच्चनीचवचनानि । उदुरध्वनीति
क्रियाविशेषणम् महाजनविशेषणं वा । मदभ्याश एव मत्समीप एव । मातङ्ग-
श्रण्डालः । त्रिस्त्रिवारम् । अघोषयत् । अवादयदित्यर्थः । भर्तारं खामिनम् ।
उपांशु रहसि । अमुष्मिसिहघोषे । शिवनागं तन्नामानम् । स्थूणमगारवर्षं चेति
द्वावप्यमात्यौ । उपजाय भेदं कृत्वा । 'उपजापः स्मृतो मेदः' इत्यमरः । तैर्म-
त्रिभिः । विवृतगुह्यः प्रकटीकृतमन्त्रः । प्राडिवाको व्यवहारनिर्णायकः । 'द्रष्टरि
व्यवहाराणां प्राढिवाकाक्षदर्शको' इत्यमरः । अयुद्धरणाय नेत्रोत्पाटनाय । अन्या-
भूषणा ।
प्रकोष्ठे हर्म्यादिः काञ्चयां मध्येभबन्धने' इत्यमरः । तूर्णम् । 'सत्वरं चपलं तूर्णम्'
इत्यमरः । चिञ्चाऽम्लिका । 'अम्लिका तिन्तिणी चिचा' इति वैजयन्ती ।
उद्धुरध्वनिर्विशङ्खलध्वनिः । 'उद्धुरं तु विशृङ्खलम् । विवृतगुह्य आविष्कृतरहस्यः ।
प्राडिवाको व्यवहारनिर्णायकः + 'द्रष्टरि व्यवहाराणां प्राशिवाकाक्षदर्शको'
लघुदीपिका ।
।
तिरस्करिणी' । बाह्यकक्षा । 'कक्षा प्रकोष्ठे हर्म्यादेः कायां मध्येभबन्धने' । तूर्णम् ।
'सत्वरं चपलं तूर्णमविलम्बितमाशु च' । चिश्वा । 'अम्लिका विन्तिणी चिञ्चा'
इति वैजयन्ती । उद्धुरध्वनिः । 'उद्धुरं तु विशृङ्खलम्' । विवृतगुह्यः । प्राङ्गि-
चाको व्यवहारनिर्णायकः । द्रष्टरि व्यवहाराणां प्राझिवाकाक्षदर्शकौ' । जनादुप-
पाठा०-१ 'लम्बघनतर'.
१६३० कु०