2023-09-03 13:56:44 by Lakshmainarayana achar

This page has been fully proofread twice.

षधबलेनाभिगृह्य पूर्णभद्रमब्रवम् – 'भद्र, सिद्धं नः समीहितम् ।
अनेन तातमलक्ष्यमाणः संकुले यदृच्छया पातितेन नाम दंश-
यित्वा तथा विषं स्तम्भयेयं यथा मृत [^१]इत्युदास्येत । त्वया तु
मुक्तसाध्वसेन माता मे बोधयितव्या – 'यो यक्ष्या वने देव्या
वसुमत्या हस्तार्पितो युष्मत्सूनुः सोऽनुप्राप्तः पितुरवस्थां मदुपलभ्य बुद्धिबलादित्थमाचरिष्यति । त्वया तु मुक्तत्रासया राज्ञे प्रेषणीयम् – 'एष खलु क्षात्रधर्मो यद्बन्धुरबन्धुर्वा दुष्टः स निरपेक्षं निर्ग्राह्य इति । स्त्रीधर्मश्चैष यददुष्टस्य दुष्टस्य वा भर्तुर्गतिर्गन्तव्येति । तदहममुनैव सह चिताग्निमारोक्ष्यामि । युवतिजनानुकूल: पश्चिमो विधिरनुज्ञातव्यः' इति । स एवं निवेदितो नियतमनुज्ञास्यति । ततः स्वमेवागारमानीय [^२]काण्डपटीपरिक्षिप्ते विविक्तोद्देशे दर्भसंस्तरणमधिशाय्य स्वयं कृतानुमरणमण्डनया त्वया च तत्र संनिधेयम् । अहं च बाह्यकक्षागतस्त्वया प्रवेश-
 
पदचन्द्रिका ।
 
विषधरश्चक्री व्यालः सरीसृपः' इत्यमरः । प्राकाररन्ध्रेण वरणभित्तिच्छिद्रेण । उदैरयत् । ऊर्ध्वमकरोदित्यर्थः । तं सर्पम् । अभिगृह्य गृहीत्वा । समीहितं वाञ्छितम् । अनेन सर्पेण । तातं पितरम् । अलक्ष्यमाणोऽदृश्यमानः । संकुले संमर्दे । यदृच्छया
दैवेन । स्तम्भयेयं स्तम्भितं करिष्ये । त्वया पूर्णभद्रेण मुक्तसाध्वसेन त्यक्तभयेन । यक्ष्या यक्षकन्यया । तारावल्येति यावत् । युष्मत्सूनुर्भवत्पुत्रः । मदुपलभ्य मत्तो ज्ञात्वा । निर्ग्राह्यो निग्रहीतव्यः । आरोक्ष्याम्यारोहणं करिष्ये । युवतिजनानुकूलः
स्त्रीलोकानुगुणः । 'अभिजनानुरूपः' इति पाठे वंशानुरूप इत्यर्थः । 'संततिर्गोत्रजननकुलान्यभिजनान्वयौ' इत्यमरः । पश्चिमश्चरमः । काण्डपटीपरिक्षिप्ते तिरस्करिणीपरिवृते । 'अपटी काण्डपटीका प्रतिसीरा जवनिका तिरस्करिणी' इति हैमः । दर्भसंस्तरणं दर्भास्तरणम् । बाह्यकक्षा बहिः प्रकोष्ठ: । 'कक्षा प्रकोष्ठे
 
भूषणा ।
 
इत्यमरः । उदैरयदुदगमयत् । 'ईर गतौ कम्पने च' । अभिजनो गोत्रम् । 'संततिर्गोत्रजननकुलान्यभिजनान्वयौ' इत्यमरः । काण्डपटपरिक्षिप्ते तिरस्करिणीपरिवृते । 'अपटी काण्डपटीका प्रतिसीरा जवनिका तिरस्करिणी' बाह्यकक्षा । 'कक्षा
 
लघुदीपिका ।
 
दुदगमयत् । अभिजनो वंशः । 'संततिर्गोत्रजनन- कुलान्यभिजनान्वयौ' । काण्डपटपरिक्षिप्ते तिरस्करिणीप्रावृते । 'अपटी काण्डपटीका प्रतिसीरा जवनिका
 
[^१]G.'अवादिश्येत'; 'उत्सृज्ये'.
[^२]G.'काण्डपट'.