This page has not been fully proofread.

दशकुमारचरितम् ।
 
[ चतुर्थः
 
षधबलेनाभिगृह्य
 
पूर्णभद्रमब्रवम् – 'भद्र, सिद्धं नः समीहितम् ।
अनेन तातमलक्ष्यमाणः संकुले यदृच्छया पातितेन नाम दंश-
यित्वा तथा विषं स्तम्भयेयं यथा मृत ईत्युदास्येत । त्वया तु
मुक्तसाध्वसेन माता मे बोधयितव्या – 'यो यक्ष्या वने देव्या
वसुमत्या हस्तार्पितो युष्मत्सूनुः सोऽनुप्राप्तः पितुरवस्थां मदु-
पलभ्य बुद्धिबलादित्थमाचरिष्यति । त्वया तु मुक्तत्रासया राज्ञे
प्रेषणीयम् – 'एष खलु क्षात्रधर्मो यद्वन्धुरबन्धुर्वा दुष्टः स निर-
पेक्षं निर्माह्य इति । स्त्रीधर्मश्चैष यददुष्टस्य दुष्टस्य वा भर्तुर्ग-
तिर्गन्तव्येति । तद्हममुनैव सह चिताग्निमारोक्ष्यामि । युवति-
जनानुकूल: पश्चिमो विधिरनुज्ञातव्यः' इति । स एवं निवेदितो
नियतमनुज्ञास्यति । ततः स्वमेवागारमानीय काण्डपटीपरिक्षिप्ते
विविक्तोद्देशे दर्भसंस्तरणमधिशाय्य स्वयं कृतानुमरणमण्डनया
त्वया च तत्र संनिषेयम् । अहं च बाह्यकक्षागतस्त्वया प्रवेश-
पदचन्द्रिका ।
 
विषधरश्चक्री व्यालः सरीसृपः' इत्यमरः । प्राकाररन्ध्रेण वरणभित्तिच्छिद्रेण । उदै-
रयत् । ऊर्ध्वमकरोदित्यर्थः । तं सर्पम् । अभिगृह्य गृहीत्वा । समीहितं वाञ्छितम् ।
अनेन सर्पेण । तातं पितरम् । अलक्ष्यमाणोऽदृश्यमानः । संकुले संमदें । यदृच्छया
दैवेन । स्तम्भयेयं स्तम्भितं करिष्ये । त्वया पूर्णभद्रेण मुक्तसाध्वसेन त्यक्तभयेन ।
यक्ष्या यक्षकन्यया । तारावल्येति यावत् । युष्मत्सूनुर्भवत्पुत्रः । मदुपलभ्य मत्तो
ज्ञाला । निर्मायो निग्रहीतव्यः । आरोक्ष्याम्यारोहणं करिष्ये । युवतिजनानुकूलः
स्त्रीलोकानुगुणः । 'अभिजनानुरूपः इति पाठे वंशानुरूप इत्यर्थः । 'संततिर्गोत्र-
जननकुलान्यभिजनान्वयौ' इत्यमरः । पश्चिमञ्चरमः । काण्डपटीपरिक्षिप्ते तिरस्क-
रिणीपरिवृते । 'अपटी काण्डपटीका प्रतिसीरा जवनिका तिरस्करिणी' इति
ह्रैमः । दर्भसंस्तरणं दर्भास्तरणम् । बाह्यकक्षा बहिः प्रकोष्ठ: । 'कक्षा प्रकोष्ठे
 
१८०
 
भूषणा ।
 

 
इत्यमरः । उदैरयदुद्गमयत् । 'ईर गतौ कम्पने च' । अभिजनो गोत्रम् । 'संततिर्गो-
त्रजननकुलान्यभिजनान्वयौ' इत्यमरः । काण्डपटपरिक्षिप्ते तिरस्करिणीपरिवृते ।
'अपटी काण्डपटीका प्रतिसीरा जवनिका तिरस्करिणी बाह्यकक्षा कक्षा
 
लघुदीपिका ।
 
दुद्गमयत् । अभिजनो वंशः । 'संततिर्गोत्रजननकुलान्यभिजनान्त्रयौ' ।
काण्डपटपरिक्षिप्ते तिरस्करिणीप्रावृते । 'अपटी काण्डपटीका प्रतिसीरा जवनिका
पाठा० - १ 'अवादिश्येत'; 'उत्सृज्ये'. २ 'काण्डपट'.