2023-07-05 15:46:02 by Lakshmainarayana achar
This page has been fully proofread once and needs a second look.
तम् । 'अथासौ [^१]निर्भयोऽद्य प्रियतमाविरहपाण्डुभिरवयवैर्धै- र्यस्तम्भितापर्याकुलेन चक्षुषोष्मश्वासशोषिताभिरिवानतिपेशलाभि-
र्वाग्भिर्वियोगं दर्शयन्तम्, कथमपि राजकुले कार्याणि कारय-
न्तम्, पूर्वसंकेतितैः पुरुषैरभिग्राह्याबन्धयत् । तस्य किल स्थाने
स्थाने दोषानुद्घोष्य तथोद्धरणीये चक्षुषी यथा तन्मूलमेवास्य मरणं
भवेत्' इति । अतोऽत्रैकान्ते यथेष्टमश्रु मुक्त्वा तस्य साधोः
पुरः प्राणान्मोक्तुकामो बध्नामि परिकरम्' इति ।
मयापि तत्पितृव्यसनमाकर्ण्य पर्यश्रुणा सोऽभिहितः- 'सौम्य, किं तव गोपायित्वा । यस्तस्य सुतो यक्षकन्यया देवस्य राजवाहनस्य पादशुश्रूषार्थं देव्या वसुमत्या [^२]हस्तन्यासः कृतः सोऽहमस्मि । शक्ष्यामि सहस्रमपि सुभटानामुदायुधानां हत्वा पितरं मोचयितुम् । अपि तु संकुले यदि कश्चित्पातयेत्तदङ्गे शस्त्रिकां सर्व एव मे यत्नो भस्मनि हुतमिव भवेत्' इति । अनवसितवचन एव मयि महानाशीविषः प्रकाररन्ध्रेणोदैरयच्छिरः । तमहं मन्त्रौ-
पदचन्द्रिका ।
दौर्मनस्यं दौश्चित्यम् । प्रायेण बाहुल्येन । अथेति । असौ राजा । अवयवैः शरीरावयवैः । अनतिपेशलाभिरनतिकोमलाभिः । पूर्वसंकेतितैः प्रागेव मन्त्रितैः । अभिग्राह्य ग्राहयित्वा । स्थाने स्थाने प्रतिस्थले । उद्घोष्योद्भाव्य । उद्धरणीये निष्कासनीये । अत्रैकान्ते रहसि मोक्तुकामस्त्यक्तुकामः । 'लुम्पेदवश्यमः कृत्ये तुं
काममनसोरपि' इति मकारलोपः ॥
पर्यश्रुणा कृतरोदनेन हस्तन्यासो हस्तनिक्षेपः । वक्ष्यामि शक्तो भविष्यामि । उदायुधानामुद्यतशस्त्राणाम् । संकुले संबाधे । तदङ्गे पितुरङ्गे। भस्मनि रक्षायाम् । हुतमिव क्षिप्तमिव । निरर्थकमिवेति भावः । अनवसितवचनेऽसमाप्तवचने । महानतिदीर्घः । आशीविषः सर्पः । 'आशीविषो
भूषणा ।
पालयोर्वियोगश्रवणोत्तरम् । अबन्धयत् । लब्धावसरत्वादिति भावः । मोक्तुकामस्त्यक्तुमिच्छुः । 'लुम्पेदवश्यमः कृत्ये तुं काममनसोऽरपि । समो वाहिततयोर्मांसस्य पचि युङ्घञो: ॥" इति मकारलोपः । संकुले संबाधे । शस्त्रिका छुरिका । 'स्याच्छस्त्री
चासिपुत्री च छुरिका' इत्यमरः । आशीविषः सर्पः । 'आशीविषो विषधरः'
लघुदीपिका ।
वाले' इति वैजयन्ती । मोक्तुकामस्त्यक्तुकामः । 'लुम्पेदवश्यमः कृत्ये तुं काममनसोरपि । समो वाहिततयोर्मांसस्य पचि युङ्घञो: ॥ इति मलोपः । उदैरय-
[^१]G. 'निर्भरोद्यत् .
[^२]G. 'हस्ते न्यासः',