2023-09-03 13:56:58 by Lakshmainarayana achar

This page has been fully proofread twice.

मभिगमयितुं यतस्व' इति । स तथा दूषितोऽपि [^१]यक्षिणीभया-
न्नामुष्मिन्पापमाचरितुमशकत् । एषु किल दिवसे- [^२]ष्वयथापूर्वमाकृतौ कान्तिमत्याः समुपलक्ष्य राजमहिषी सुलक्षणा नाम सप्रणयमपृच्छत् – 'देवि, [^३]नाहमायथातथ्येन विप्रलम्भनीया । कथय तथ्यं [^४]केनेदयथापूर्व [^५]माननारविन्दे तवैषु वासरेषु' इति । सा त्ववादीत् – 'भद्रे, स्मरसि
[^६]किमद्याप्यायथातथ्येन किंचिन्मयोक्तपूर्वम् ? सखी मे तारावली सपत्नी च किमपि कलुषिताशया रहसि भर्त्रा मद्गोत्रापदिष्टा प्रणयमप्युपेक्ष्य प्रणम्यमानाप्यस्माभिरुपोढमत्सरा प्रावसत् । अवसीदति च नः पतिः । अतो मे दौर्मनस्यम्' इति । तत्प्रायेणैकान्ते सुलक्षणय कान्तया कथि-
 
पदचन्द्रिका ।
 
'यावत्पुरानिपातयोर्लट्' ( ३।३।४ ) । स कृतघ्नोऽर्थपाल इति । भवन्तं सिहघोषम् । अभिगमयितुं प्रापयितुम् । यतस्व प्रयत्नं कुरु । स सिहघोषः । दूषितो भेदितः । यक्षिणीभयात् ।अमुष्मिन्कन्यादूषके । पापं हननरूपम् । अशकत् । शक्तोऽभू-
दित्यर्थः । आननारविन्दे मुखपद्मे । वासरेषु दिवसेषु ।अयथापूर्वमयथाभावम् । नवीनमित्यर्थः । आकृतौ शरीरे । यथातथं वास्तवं तस्य भाव आयथातथ्यं तेन । अवास्तवेनेत्यर्थः । विप्रलम्भनीया । प्रतारणीयेत्यर्थः । तथ्यं सत्यम् । सा कान्तिमती ।
भद्रे इति सुलक्षणासंबोधनम् । कलुषिताशया मलिनितबुद्धिः । मद्गोत्रापदिष्टा मन्नामाहूता। 'नाम गोत्रं कुलं गोत्रं गोत्रः पर्वतपक्षयोः' इति कोशः । प्रणयं प्रीतिम् । प्रणम्यमानापि नमस्कारपूर्वकं प्रार्थ्यमानापि । उपोढमत्सरा प्ररूढद्वेषा।
 
भूषणा ।
 
लट् । दूषितो मेदितः । 'दुष वैकृत्ये' णिचि कृते 'दोषो णौ' (५।४।९० ) इत्युपधाया ऊत्वम् । यक्षिणी तारावली ।अयथापूर्वमयथाभावम् । राजमहिषी सिंहघोषस्त्री । आयथातथ्येन । ब्राह्मणादित्वाद्भावे ष्यञ् । 'यथातथयथापुरयोः पर्यायेण' ( ७।३ । ३१ ) इति वृद्धिः । कलुषिताशया कलुषितबुद्धिः । मद्रोत्रं मन्नामाभिधानेनापदिष्टा व्यवहृता गोत्रस्स्वलनापराधान्मानवती गता । 'गोत्रं नाम्नि कुले बाले' इति वैजयन्ती । अथ स्वस्त्रीमुखात्ताराव- लीकाम-
 
लघुदीपिका ।
 
लट् । दूषितो भेदितः । 'दुष वैकृत्ये' । णिचि कृते 'दोषो णौ' (५।४।९० ) इत्युपधाया ऊत्वम् । अयथापूर्वमयथाभावम् । आयथातथ्येन । यथातथं वास्तवं सत्यमुक्तम् । कलुषिताशया कलुषितबुद्धिः । मद्गोत्रं मन्नाम । 'गोत्रं । नाम्नि कुले
 
 
[^१]G. 'प्रभावात्'; 'प्रभावभयात्'.
[^२]G. 'आयथापूर्व्यम्'.
[^३]G. 'आयथातथ्येन'; 'अयाथातथ्येन'.
[^४]G. 'आयथापूर्वम्'.
[^५]G. 'आननारविन्दम्'.
[^६]G. 'अयाथातथ्येन'.