2023-07-05 03:51:48 by Lakshmainarayana achar

This page has been fully proofread once and needs a second look.

१७८
 
दशकुमारचरितम् ।
 
[ चतुर्थः
 
मभिगमयितुं यतस्व' इति । स तथा दूषितोऽपि [^१]यक्षिणीभया-

न्
नामुष्मिन्पापमाचरितुमशकत् । एषु किल दिवसे- [^२]ष्वयथापूर्वमा-
कृतौ कान्तिमत्याः समुपलक्ष्य राजमहिषी सुलक्षणा नाम सप्र-
णयमपृच्छत् – 'देवि, [^२]नाहमायथातथ्येन विप्रलम्भनीया । कथय
तथ्यं [^४]केनेद्मयथापूर्व [^५]माननारविन्दे तवैषु वासरेषु' इति । सा
त्ववादीत् – 'भद्रे, स्मरसि
[^६]
किर्मंद्याप्यायथातथ्येन किंचिन्मयो-
क्पूर्वम् ? सखी मे तारावली सपत्नी च किमपि कलुषिताशया
रहसि भर्त्रा मद्गोत्रापदिष्टा प्रणयमप्युपेक्ष्य प्रणम्यमानाप्यस्मा-
भिरुपोढमत्सरा प्रावसत् । अवसीदति च नः पतिः । अतो मे
दौर्मनस्यम्' इति । तत्प्रायेणैकान्ते सुलक्षणय कान्तया कथि-

 
पदचन्द्रिका ।
 

 
'यावत्पुरानिपातयोर्लट्' ( ३४ ) । स कृतघ्नोऽर्थपाल इति । भवन्तं सिहघोषम् ।
अभिगमयितुं प्रापयितुम् । यतस्व प्रयत्नं कुरु । स सिहघोषः । दूषितो भेदितः ।
यक्षिणीभयात् । अमुष्मिन्कन्यादूषके । पापं हननरूपम् । अशकत् । शक्तोऽभू-

दित्यर्थः । आननारविन्दे मुखपद्मे । वासरेषु दिवसेषु । अयथापूर्वमयथाभावम् ।
नवीनमित्यर्थः । आकृतौ शरीरे । यथातथं वास्तवं तस्य भाव आयथातथ्यं तेन । अवा-
स्तवेनेत्यर्थः । विप्रलम्भनीया । प्रतारणीयेत्यर्थः । तथ्यं सत्यम् । सा कान्तिमती ।

भद्रे इति सुलक्षणासंबोधनम् । कलुषिताशया मलिनितबुद्धिः । मद्गोत्रापदिष्टा
मन्नामाहूता। 'नाम गोत्रं कुलं गोत्रं गोत्रः पर्वतपक्षयोः' इति कोशः । प्रणयं
प्रीतिम् । प्रणम्यमानापि नमस्कारपूर्वकं प्रार्थ्यमानापि । उपोढमत्सरा प्ररूढद्वेषा।
 

 
भूषणा ।
 

 
लट् । दूषितो मेदितः । 'दुष वैकृत्ये' णिचि कृते 'दोषो णौ' (५९० )
इत्युपधाया ऊत्वम् । यक्षिणी तारावली ।अयथापूर्वमयथाभावम् ।
राजमहिषी सिंहघोषस्त्री । आयथातथ्येन । ब्राह्मणादित्वाद्भावे व्ष्यञ् । 'यथातथ-
यथापुरयोः पर्यायेण' ( ७३ । ३१ ) इति वृद्धिः । कलुषिताशया कलुषितबुद्धिः ।
मद्रोत्रं मन्नामाभिधानेनापदिष्टा व्यवहृता गोत्रस्लनापराधान्मानवती गता ।
'गोत्रं नाम्नि कुले बाले' इति वैजयन्ती । अथ स्स्त्रीमुखात्ताराव- लीकाम-

 
लघुदीपिका ।
 

 
लट् । दूषितो मेभेदितः । 'दुष वैकृत्ये' । णिचि कृते 'दोषो णौ' (५९० )
इत्युपधाया ऊत्वम् । अयथापूर्वमयथाभावम् । आयथातथ्येन । यथातथं वास्तवं
सत्यमुक्तम् । कलुषिताशया कलुषितबुद्धिः । मद्गोत्रं मन्नाम । 'गोत्रं । नाम्नि कुले
 
P
 
पाठा० -

 
 
[^
]G. 'प्रभावात्'; 'प्रभावभयात्'.
[^
]G. 'आयथापूर्व्यम्'.
[^
]G. 'आयथा-
प्र
थ्येन'; 'अयाथातथ्येन'.
[^
]G. 'आयथापूर्वम्'.
[^
]G. 'आननारविन्दम्'.

[^
]G. 'अयाथातथ्येन'.