This page has not been fully proofread.

उच्छ्वासः ] पदचन्द्रिका-भूषणा- लघुदीपिकासहितम् । १७७
 
स एवं माहशेऽपि जन्तौ परिचर्यानुबन्धी बन्धुरेकः सर्व-
भूतानामलसकेन स्वर्गते श्वशुरे, ज्यायसि च श्याले चण्ड-
घोषनाम्नि स्त्रीष्वतिप्रसङ्गात्प्रागेव क्षयक्षीणायुषि, पञ्चवर्षदेशीयं
सिंहघोषनामानं कुमारमभ्यषेचयत् । अवर्धयच विधिनैनं
स साधुः । तस्याद्य यौवनोन्मादिनः पैशुन्यवादिनो दुर्मत्रिणः
कतिचिदासन्नन्तरङ्गभूताः
। तैः
किलासावित्थमग्राह्यत -
'प्रसह्यैव स्वसा तवामुना भुजङ्गेन संगृहीता । पुनः प्रसुप्ते
राजनि प्रहर्तुमुद्यतासिरासीत् । तेनास्मै तत्क्षणप्रबुद्धेन भीत्या-
नुनीय दुत्ता कन्या । तं च दे॒वज्येष्ठं चण्डघोषं विषेण
हत्वा बालोऽयमसमर्थ इति त्वमद्यापि प्रकृतिविश्रम्भणायोपे-
क्षितः । क्षिणोति च पुरा स कृतघ्नो भवन्तम् । तमेवान्तकपुर-
पदचन्द्रिका ।
 
परिचर्यानुबन्धी सेवानुबन्धी ।
सेवानुबन्धी । बन्धुः सखा । अलसकेन क्षयेण ।
'क्षयस्त्वलसको मतः' इति वैजयन्ती । स्वर्गते मृते । ज्यायसि ज्येष्ठे ।
श्याले पत्नीभ्रातरि । 'श्यालाः स्युर्भ्रातरः पत्याः' इत्यमरः । 'स्यालौ' इति
वा पाठः । स्त्रीषु योषित्सु । अतिप्रसङ्गादतियोगादत्यन्तासक्तेः । 'अतियोगा-
द्वियोगाद्वा क्षयो भवति जन्मिनः' इति निदानम् । अभ्यषेचयदभिषेक-
मकारयत् । एनं सिंहघोषनामानम् । स साधुः । अद्य सांप्रतम् । यौवनोन्मादि-
नस्तारुण्योन्मादवतः । दुर्मन्त्रिणो दुष्टप्रधानस्य चण्डघोषनाम्नः । अन्तरङ्गभूता
आप्ततराः । बभूवुरित्यर्थः । तैरमायैः । असौ सिंहघोषः । अग्राह्यत । अबोध्यते-
त्यर्थः । अमुनेति मामुद्दिश्योक्तिः । भुजङ्गेन विटेन । संगृहीता स्वीकृता । प्रसुप्ते
निद्रां गते । प्रहर्तु मारितुम् । उद्यतासिरूध्वींकृतखङ्गः तेन राज्ञा । अस्मै
भुजङ्गाय । अनुनीय सान्त्वयित्वा । असमर्थः कार्याक्षमः । प्रकृतयः प्रजाः । विश्र-
म्भणं विश्वासः । उपेक्षितोऽनासक्तः । क्षिणोति च क्षयिष्यति । पुरेति ।
 
भूषणा ।
 
यन्ती । ज्यायसि पूर्वजे । 'वर्षीयान्दशमी ज्यायान्पूर्वजः' इत्यमरः । पञ्चवर्षदेशीय
ईषदसमाप्तपञ्चवर्षम्। 'ईषदसमाप्तौ कल्पब्देश्यदेशीयरः' (५५३१६७ ) अप्राश्यता-
बोध्यत । क्षिणोति पुरा क्षपयिष्यति । 'यावत्पुरा - ( ३३१४ ) इति भविष्यति
लघुदीपिका ।
 
'क्षयस्त्वलसको मतः' इति वैजयन्ती । ज्यायसि । ज्यायाश्येष्ठश्चाग्रजः । अप्रा-
यताबोध्यत । क्षिणोति पुरा क्षयिष्यति । 'यावत्पुरा -' इत्यादिना भविष्यति
 

 
पाठा० - १ 'दैवात्तत्क्षण'.